________________ 18-21] बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः / 109 तत्रौधे एकोनाशीतिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः इत्यादि यावदयोगिनि शून्यम् / क्षायिकसम्यक्त्वखरूपं त्विदम् खीणे दंसणमोहे, तिविहम्मि वि भवनियाणभूयम्मि / निप्पञ्चवायमउलं, सम्मतं खाइयं होइ // (श्राव० प्र० गा० 18) तथा 'मिथ्यात्वत्रिके' मिथ्यादृष्टिसाखादन मिश्रलक्षणे 'देशे' देशविरते 'सूक्ष्मे सूक्ष्मसम्पराये 'खस्थानं' निजस्थानम् / अयमर्थः-मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानम् , सासा. दनमार्गणास्थाने सासादनगुणस्थानम् , मिश्रमार्गणास्थाने मिश्रगुणस्थानम् , देशसंयममार्गणास्थाने देशविरतगुणस्थानम् , सूक्ष्मसम्परायसंयमे सूक्ष्मसम्परायगुणस्थानम् / अत्र च खखगुणस्थानीयो बन्धः, यथा-मिथ्यात्वे ओघतो विशेषतश्च सप्तदशोत्तरशतम् , एवं सासादने एकोपरशतम् , मिश्रे चतुःसप्ततिः, देशे सप्तषष्टिः, सूक्ष्मे सप्तदशः / आहारकद्वारे-त्रयोदश गुणस्थानानि मिथ्यादृष्ट्यादीनि सयोगिकेवल्यन्तानि आहारके जीवे लभ्यन्ते, अयोगी त्वनाहारकः / तत्रौषतः विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , इत्यादि यावत् सयोगिनि सातरूपैका प्रकृतिर्बन्धे भवति / एवं वेदादिषु मार्गणास्थानेषु गुणस्थानकान्युपदर्य सम्प्रति तेषु बन्धातिदेशमाह-"नियनियगुणोहो" ति निजनिजगुणौषः, एतेषु वेदादिषु यानि खखगुणस्थानानि तेष्वोधः कर्मस्तवोक्तो बन्धे द्रष्टव्य इत्यर्थः / स च यथास्थानं भावित एव // 19 // यच्च प्रागुक्तम् "अष्टौपशमिकसम्यक्त्वे गुणस्थानानि" इति तत्र कश्चिद्विशेषमाह परमुवसमि वदता, आउ न बंधंति तेण अजयगुणे। - देवमणुआउहीणो, देसाइसु पुण सुराउ विणा // 20 // व्याख्या सर्वत्र वेदादिषु निजनिजगुणौधो वाच्य इत्युक्तं परमौपशमिकेऽयं विशेषःऔपशमिके वर्तमाना जीवा आयुर्न बध्नन्ति तेनाऽयतगुणस्थान के देवमनुजायुा हीन ओपो वाच्यः, नरकतिर्यगायुषोः प्रागेव मिथ्यात्वसासादनयोरपनीतत्वान्न तद्धीनता / तथा 'देशादिषु' देशविरतप्रमत्ता प्रमतेषु पुनरोधः सुरायुविना ज्ञेयः / औपशमिकसम्यक्त्वं तूपशमश्रेण्यां प्रथमसम्यक्त्वलाभे वा भवति जीवस्य / उक्तं च उवसामगसेढिगयस्स होइ उवसामियं तु सम्मतं / जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं // (विशेषा० गा० 529, 2735) ननु क्षायोपशमिकौपशमिकसम्यक्त्वयोः कः प्रतिविशेषः :, उच्यते-क्षायोपशमिके मिथ्यात्वदलिकवेदनं विपाकतो नास्ति प्रदेशतः पुनर्विद्यते, औपशमिके तु. प्रदेशतोऽपि नास्तीति विशेषः // 20 // उक्तं वेदादिषु बन्धखामित्वम् / अथ लेश्याद्वारमुच्यते ओहे अट्ठारसयं, आहारदुगूण आइलेसतिगे / तं तित्थोणं मिच्छे, साणाइसु सयहिं ओहो // 21 // 1 क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते / निष्यत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति // 2 उपशमकश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् / यो वाऽकृतत्रिपुत्रोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् //