________________ 101 देवेन्द्रसूरिविरचितः सावचूरिकः [गाथा सामान्यतः सप्तनवतिं ते बध्नन्ति, मिथ्यादृशः षण्णवतिम् , सासादना द्विनवतिम् , मिश्रेऽविरते चोद्योतादिचतुष्कस्य प्रागेवापनीतत्वात् सम्पूर्ण एव रत्नप्रभादिभङ्गः ततो मिश्राः सप्ततिं अविरता द्विसप्ततिं बध्नन्ति / मिथ्यात्वादिगुणस्थानत्रयाभावात् पश्चानुपरविमानदेवा एतामेवाविरतगुणस्थानकसत्कां द्विसप्ततिं बघ्नन्तीत्यनुक्तमपि ज्ञेयमिति / उक्तं देवगतौ बन्धखामित्वम् , तगणनाञ्च गतिबन्धमार्गणा समाप्ता / साम्प्रतमिन्द्रियेषु कायेषु च तदारभ्यते-"अपज" इत्यादि / अपर्याप्ततिर्यग्वद् नवोत्तरशतमेकेन्द्रियपृथ्वीजलतरुविकलेषु द्रष्टव्यम् / अयमर्थःविंशत्युत्तरशतमध्याद् जिननामाघेकादशप्रकृतीर्मुक्त्वा शेषं नवोत्तरशतमेकेन्द्रिया विकलेन्द्रियाः पृथ्वीजलवनस्पतिकायाश्च सामान्यपदिनो मिथ्यादृशश्च बघ्नन्ति // 11 // अर्थतेषामेव सासादनगुणस्थाने बन्धमाह छनवइ सासणि विणु सहुमतेर केइ पुण बिंति चउनवई। तिरियनराऊहिँ विणा, तणुपजत्तिं न ते जंति // 12 // व्याख्या-प्रागुक्तं नवोत्तरशतं सूक्ष्मत्रिकादिप्रकृतित्रयोदशकं मिथ्यात्व एव व्यवच्छिन्नबन्धमिति कृत्वा तद् विना षण्णवतिः सासादने एकेन्द्रियविकलेन्द्रियपृथ्वीजलवनस्पतिकायानां . भवति / केचित् पुनराचार्या ब्रुवते चतुर्नवर्ति तिर्यमरायुष्काभ्यां विना, यतस्त एकेन्द्रियविकलेन्द्रियादयः सासादनाः सन्तस्तनुपर्याप्तिं न यान्ति अतस्ते तिर्यमरायुरबन्धकाः / अयं भावार्थ:तिर्यमरायुषोस्तनुपर्याप्त्या पर्याप्तरेव बध्यमानत्वात् पूर्वमतेन शरीरपर्याप्त्युत्तरकालमपि सासादनभावस्थेष्टत्वाद् आयुर्वन्धोऽभिप्रेतः, इह तु प्रथममेव तन्निवृत्तेर्नेष्ट इति षण्णवतिः। तिर्यमरायुषी विना मतान्तरेण चतुर्नवतिः // 12 // उक्त एकेन्द्रियादीनां बन्धः, अथ पञ्चेन्द्रियाणां त्रसकायिकानां च तमाह ओहु पणिदि तसे गइतसे जिणिकार नरतिगुच्च विणा / मणवयजोगे ओहो, उरले नरभंगु तम्मिस्से // 13 // व्याख्या-'ओघः' विंशत्युत्तरशतादिलक्षणः कर्मस्वोक्तः पञ्चेन्द्रियेषु त्रसकायिकेषु चावगन्तव्यः / तद्यथा-सामान्यतो विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम् , मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः, प्रमते त्रिषष्टिः, अप्रमते एकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत् , भागपञ्चके षट्पञ्चाशत् , सप्तमभागे षड्विंशतिः, अनिवृतिबादरे आये भागे द्वाविंशतिः, द्वितीये एकविंशतिः, तृतीये विंशतिः, चतुर्थे एकोनविंशतिः, पञ्चमेऽष्टादश, सूक्ष्मे सप्तदश, शेषगुणस्थानत्रये सातस्यैकस्य बन्धः, अयोगिनि बन्धाभावः / गतित्रसाः-तेजोवायुकायास्तेषु जिननामाघेकादशप्रकृतीनरत्रिकमुच्चैोत्रं च विना विंशत्युत्तरं शतं शेषं पञ्चोत्तरं शतं बन्धे लभ्यते, सासादनादिभावस्तु नैषां सम्भवति / यत उक्तम् ने हु किंचि लमिज सुहुमतसा // सूक्ष्मत्रसाखेजोवायुकायजीवा इति / एवमुक्त इन्द्रियेषु कायेषु च बन्धः, सम्प्रति योगेषु न हि किंचिल्लभन्ते सूक्ष्मत्रसाः //