________________ 9-11] बन्धखामित्वाध्यतृतीयः कर्मग्रन्थः / मिमाणामेकोनसप्ततिः, अविरतसम्यग्दृष्टीनामेकसप्ततिः, देशविरतानां सषष्टिः, प्रमचाना त्रिषष्टिः, अप्रमतानामेकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिबादराणां प्रथमे भागेऽष्टपञ्चाशत् , भागपञ्चके षट्पञ्चाशत् , सप्तमभागे षड्विंशतिः, अनिवृत्तिबादराणामाचे भागे द्वाविंशतिः, द्वितीये एकविंशतिः, तृतीये विंशतिः, चतुर्थे एकोनविंशतिः, पञ्चमेऽष्टादश च, सूक्ष्मसम्परायाणां सप्तदश, उपशान्तमोहक्षीणमोहसयोगिनामेका सातलक्षणा प्रकृतिबंन्धे प्राप्यते, अयोगिनां तु बन्धाभावः / एवमन्यत्राप्योघबन्धः कर्मस्तवानुसारेण भावनीयः / उक्तविर्यमराणां पर्याप्ताना बन्धः, अथ तेषामेवापर्याप्तानां तमाह-"जिणइकारसहीणं" इत्यादि / यदेव नराणामोघबन्धे विंशत्युत्तरशतं तदेव जिननामाघेकादशप्रकृतिहीनं शेषं नवोचरशतमपर्यापतिर्यमरा ओघतो मिथ्यात्वे च बध्नन्ति / यद्यपि करणापर्याप्तो देवो मनुष्यो वा जिननामकर्म सम्यक्त्वप्रत्ययेन बध्नाति तथापीह नराणां लब्ध्याऽपर्याप्तत्वेन विवक्षणाद् न जिननामबन्धः // 9 // तिर्यग्गतौ मनुष्यगतौ च बन्धखामित्वमुक्तम् / साम्प्रतं देवगतिमधिकृत्य तदुच्यते निरय व्व सुरा नवरं, ओहे मिच्छे इगिदितिगसहिया। .. -- कप्पदुगे वि य एवं, जिणहीणो जोइभवणवणे // 10 // व्याख्या-सुरा अपि नारकवद् ओघतो विशेषतश्च तद्वन्धखामिनोऽवगन्तव्याः / नवरमयं विशेषः-ओघे मिथ्यात्वगुणस्थानके च बन्धमाश्रित्य सुरा एकेन्द्रियादित्रिकसहिता द्रष्टव्याः / ततोऽयमर्थः-यो नारकाणामेकोत्तरशतरूप ओघबन्धः स एवैकेन्द्रियजातिस्था. वरनामाऽऽतपनामप्रकृतित्रयसहितः सुराणां सामान्यतो बन्धश्चतुरप्रशतम् , तदेव मिथ्यात्वे जिननामरहितं व्युत्तरशतम् , एतदेवैकेन्द्रियजातिस्थावराऽऽतपनपुंसकवेदमिथ्यात्वहुण्डसेवार्तलक्षणप्रकृतिसप्तकहीनं सासादने षण्णवतिः, षण्णवतिरेवानन्तानुबन्ध्यादिषड्विंशतिप्रकृतिरहिता मिश्रे सप्ततिः, सैव जिननामनरायुष्कयुता द्विसप्ततिस्त्रामविरतसम्यग्दृष्टयो देवा बदन्तीति सामान्यदेवगातेवन्धः / साम्प्रतं देवविशेषनामोच्चारणपूर्वकं तमाह-"कप्पदुगे" इत्यादि / 'कल्पद्विकेऽपि' सौधर्मशानाख्यदेवलोकद्वयेऽपि एवं' सामान्यदेवबन्धवद् बन्धो द्रष्टव्यः / तथाहि-सामान्येन चतुरप्रशतम् , मिथ्यादृशां त्र्यप्रशतम् , सासादनानां षण्णवतिः, मिश्राणां सप्ततिः, अविरतानां द्विसप्ततिः / देवौघो जिननामकर्महीनो ज्योतिष्कमवनपतिव्यन्तरदेवेषु तद्देवीषु च विज्ञेयः, जिनकर्मसत्ताकस्य तेषत्पादाभावेन तत्र तद्वन्यासम्मवात्, ततः सामान्यतस्यधिकशतम् , मिथ्यात्वेऽपि त्र्यधिकशतम्, सासादने षण्णवतिः, मित्रे सप्ततिः, अविरते एकसप्ततिः // 10 // रयण व्व सणकुमाराइ आणयाई उजोयचउरहिया। अपजतिरिय व्व नवसयमिगिंदिपुढविजलतरुविगले // 11 // व्याख्या--सनत्कुमाराद्याः सहस्रारान्ता देवा रत्नप्रभादिप्रथमपृथिवीत्रयनारकवद् बन्धमाश्रित्य द्रष्टव्याः / तद्यथा-सामान्येनैकाप्रशतम् , मिथ्याहशां शतम्, सासादनानां षण्णवतिः, मित्राणां सप्ततिः, अविरतानां द्विसप्ततिः / आनताद्या अवेयकनवकान्ता देवा अपि उद्योतनामतिर्यग्गतितिर्यगानुपूर्वीतिर्यगायुःप्रकृतिचतुष्करहिता रत्नप्रमादिनारकवदेव द्रष्टव्याः, तवः