________________ 12-15] ___ बन्धखामित्वाख्यस्तृतीयः कर्मप्रन्थः / 105 तं प्रतिपादयन्नाह-"मणवयजोगे" इत्यादि / सूचकत्वात् सूत्रस्य सत्यादिमनोयोगचतुष्के तत्पूर्वके सत्यादिवाग्योगचतुष्के च ओघबन्धो विंशत्युत्तरशतादिलक्षणः कर्मस्तवोको ज्ञेयः / तत्र सत्यादिखरूपं त्विदम्-सत्यं यथा अस्ति जीवः सदसपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुतत्त्वचिन्तनपरम् / सत्यविपरीतं त्वसत्यम् / मिश्रखभावं सत्यासत्यम्, यथा-धवखदिरपलाशादिमिश्रेषु बहुप्वशोकवृक्षेप्वशोकवनमेवेदमिति विकल्पनापरम् / तथा यद् न सत्यं नापि मृषा तदसत्यामृषा, इह विप्रतिपचौ सत्यां यद् वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण विकस्प्यते, यथा अस्ति जीवः सदसद्रूप इत्यादि तत् किल सत्यं परिभाषितम् / यत् पुनर्विप्रतिपचौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतोतीण विकल्प्यते, यथा नास्ति जीव एकान्तनित्यो वा इत्यादि तद् असत्यम् / यत् पुनर्वस्तुप्रतिष्ठासामन्तरेण खरूपमात्रपर्यालोचनपरम् , यथा हे देवदत्त ! घटमानय, गां देहि मह्यमित्यादिचिन्तनपरं तद् असत्यामृषा, इदं खरूपमात्रपर्यालोचनपरत्वाद् न यथोक्तलक्षणं सत्यं भवति नापि मृषेति / इदमपि व्यवहारनयमतेन द्रष्टव्यम्, निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति, अन्यथा तु सत्ये / “उरले" ति मनोवाग्योगपूर्वके औदारिककाययोगे नरभक्तः "इय चउगुणेषु वि नरा" (गा० 9) इत्यादिना प्रागुकखरूपः / यथा-ओषे विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोतरशतम् , सासादने एकोत्तरशतम् , मिश्रे एकोनसप्ततिः, अविरते एकसप्ततिः इत्यादि / मनोरहितवाग्योगे विकलेन्द्रियभगः। केवलकाययोगे त्वेकेन्द्रियभङ्गः / “तम्मिस्से" ति तन्मिश्रे' औदारिकमिश्रयोगे // 13 // सम्प्रति बन्ध उच्यते आहारछग विणोहे, चउदससउ मिच्छि जिणपणगहीणं / सासणि चउनवइ विणा, नरतिरिआऊ सुहुमतेर // 14 // - व्याख्या-विंशत्युत्तरशतमाहारकादिप्रकृतिषट्कं विना शेषं चतुर्दशाधिकशतमोघबन्धे प्राप्यते / अयं भावार्थः-औदारिकमिश्रं कार्मणेन सह, तच्चापर्याप्तावस्थायां केवलिसमुद्धातावस्थायां वा; उत्पत्तिदेशे हि पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावद् शरीरस्य निष्पत्तिः, केवलिसमुद्धातावस्थायां द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकमिति / अपर्याप्पावस्थायां च नाहारकादिषट्कं बध्यते इति तनिषेधः / केवलिसमुद्धातावस्थायां पुनरेकस्य सातस्यैव बन्धोऽभिधास्यते / एतदेव चतुर्दशोत्तरशतमौदारिकमिश्रकाययोगी मिथ्यात्वे जिननामादिप्रकृतिपञ्चकहीनं शेषं नवोत्तर शतं बध्नाति / स एव सासादने चतुर्नवति बनाति, नवोतरशतमध्याद् मुक्त्वा नरतिर्यगायुषी सूक्ष्मत्रिकादित्रयोदशप्रकृतीश्च, नरतिर्यगायुषोरपयाप्तत्वेन सासादने बन्धाभावात् , सूक्ष्मत्रिकादित्रयोदशकस्य तु मिथ्यात्व एव व्यवच्छिन्नबन्धतया च // 14 // अणचउवीसाइ विणा, जिणपणजुय सम्मि जोगिणो सायं / विणु तिरिनराउ कम्मे, वि एवमाहारदुगि ओहो // 15 // व्याख्या-प्रागुका चतुर्नवतिरनन्तानुबन्ध्यादिचतुर्विशतिप्रकृतीविना जिननामादिप्रकृति क.१४