________________ 100 देवेन्द्रसूरिविरचितः सावरिकः [गाथा 39 दुर्भगत्रिकं-दुर्भगदुःखराऽनादेयरूपं 12 स्त्यानर्द्धित्रिकं-निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिलक्षणम् 45 उद्योतनाम 46 तिर्यद्विकं-तिर्यग्गतितिर्यगानुपूर्वीरूपम् 48 तिर्यगायुः 49 नरायुः 50 नरद्विकं-नरगतिनरानुपूर्वीलक्षणम् 52 औदारिकद्विकम्-औदारिकशरीरमौदारिकाङ्गोपाङ्गनाम च 54 वज्रऋषभनाराचसंहननम् 55 इति पञ्चपञ्चाशत्प्रकृतिसङ्ग्रहः॥३॥ अर्थतस्य प्रकृतिसङ्ग्रहस्य यथास्थानमुपयोगं दर्शयन् मार्गणास्थानानां प्रथमं गतिमार्गणास्थानमाश्रित्य बन्धः प्रतिपाद्यते सुरहगुणवीसवजं, इगसउ ओहेण बंधहिं निरया। तित्थ विणा मिच्छि सयं, सासणि नपुचउ विणा छनुई // 4 // . व्याख्या-"जिण सुरविउवाहार" (गा० 2) इत्यादिगाथोक्ताः क्रमेण सुरद्विकायेकोनविंशतिप्रकृतीवर्जयित्वा शेषमेकोत्तरशतमोघेन नारका बध्नन्ति / अयमत्राभिप्रायःएता एकोनविंशतिकर्मप्रकृतीर्बन्धाधिकृतकर्मप्रकृतिविंशत्युत्तरशतमध्याद् मुक्त्वा शेषस्यैकोचरशतस्य नरकगतौ नानाजीवापेक्षया सामान्यतो बन्धः, सुरद्विकायेकोनविंशतिप्रकृतीनां तु भवप्रत्ययादेव नारकाणामबन्धकत्वात् / सामान्येन नरकगतौ बन्धमभिधाय सम्प्रति तस्यामेव मिथ्यादृष्ट्यादिगुणस्थानचतुष्टयविशिष्टं तं दर्शयति-"तित्थ विणा" इत्यादि / प्रागुक्तमेकोत्तरशतं तीर्थकरनाम विना मिथ्यादृष्टिगुणस्थानके शतं भवति / एतच्च शतं नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननप्रकृतिचतुष्कं विना सासादनगुणस्थानके षण्णवति रकाणां बन्धे // 4 // विणु अणछवीस मीसे, बिसयरि सम्मम्मि जिणनराउजुया / इय रयणाइसु भंगो, पंकाइसु तित्थयरहीणो॥५॥ व्याख्या-प्रागुक्ता षण्णवतिरनन्तानुबन्ध्यादिपड्विंशतिप्रकृतीविना मिश्रगुणस्थाने सप्ततिः। सैव जिननामनरायुष्कयुता सम्यग्दृष्टिगुणस्थानके द्विसप्ततिः / 'इति' एवं बन्धमाश्रित्य भङ्गः 'रत्नादिषु' रत्नप्रभाशर्कराप्रभावालुकाप्रभाभिधानप्रथमनरकपृथिवीत्रये द्रष्टव्यः / पङ्कप्रमादिषु पुनरेष एव भङ्गस्तीर्थकरनामहीनो विज्ञेयः / अयमर्थः-पङ्कप्रभाधमप्रभातमःप्रभासु सम्यक्त्वसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाध्यवसायाभावात् तीर्थकरनामबन्धो नारकाणां नास्तीति; ततस्तत्र सामान्येन शतम् , मिथ्यादृशां च शतम् , सासादनानां षण्णवतिः, मिश्राणां सप्ततिः, अविरतसम्यग्दृष्टीनामेकसप्ततिः / इह सामान्यपदेऽविरतसम्यग्दृष्टिगुणस्थाने च रत्नप्रभादिभजस्तीर्थकरनाम्ना हीन उक्तः / मिथ्यादृश्यादिषु त्रिषु गुणस्थानेषु पुनस्तस्य प्रागेवाऽपनीतत्वात् तदवस्थ एव // 5 // अजिणमणुआउ ओहे, सत्तमिए नरदुगुच्च विणु मिच्छे / इगनवई सासाणे, तिरिआउ नपुंसचउवजं // 6 // व्याख्या-रत्नप्रमादिनरकत्रयसामान्यबन्धाधिकृतकोतरशतमध्याजिननाममनुजायुषी मुक्त्या शेषा नवनवतिरोघबन्धे सप्तमपृथिव्यां नारकाणां भवति / सैव नवनवतिर्नरगतिनरानुपूर्वी रूपनरद्विकोबैगोंविना षण्णवतिमिथ्यादृष्टिगुणस्थाने भवति / सैव षण्णवति स्तिर्यगायुर्नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवातसंहननवर्जिता एकनवतिः सासादने सप्तम्यां नारकाणाम् // 6 //