________________ बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः। मिश्रकाययोगः 13 औदारिकमिश्रकाययोगः 14 कार्मणकाययोगः 15 इति / वेदस्त्रिधास्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च 5 / कषायाः क्रोधमानमायालोमाः 6 / ज्ञानं पञ्चधामतिज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं च, ज्ञानग्रहणेन चाऽज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते, तच्च त्रिविधम्-मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेति ज्ञानमार्गणास्थानमष्टधा 7 / 'संयमः' चारित्रं तच्च पञ्चधा-सामायिकं छेदोपस्थापनं परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं च, संयमग्रहणेन च तत्प्रतिपक्षमतो देशसंयमोऽसंयमश्च सूच्यत इति संयमः सप्तधा 8 / दर्शनं चतुर्विधम्-चक्षुर्दर्शनम् अचक्षुर्दर्शनम् अवधिदर्शनं केवलदर्शनं च 9 / लेश्या पोटा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च 10 / मन्यः-तारूपानादिपारिणामिकभावात् सिद्धिगमनयोग्यः, भव्यग्रहणेन च तत्प्रतिपक्षमतोऽमव्योऽपि गृह्यते 11 / सम्यक्त्वं त्रिधा-क्षायोपशमिकम् औपशमिकं क्षायिकं च, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतं मिथ्यात्वं सासादनं मिश्रं च परिगृह्यते 12 / संज्ञी-विशिष्टसरणादिरूपमनोविज्ञानसहितेन्द्रियपश्चकसमन्वितः, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसंज्ञी सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः 13 / आहारयति ओजोलोमप्रक्षेपाहाराणामन्यतममाहारमित्याहारकः, तत्मतिपक्षमतोऽनाहारकः 11 / ननु ज्ञानादिषु किमर्थमज्ञानादिप्रतिपक्षप्रहणं कृतम्:, उच्यते-चतुर्दशखपि मार्गणास्थानेषु प्रत्येकं सर्वसांसारिकसत्त्वसङ्ग्रहार्थमिति / उक्तरूपेषु गत्यादिषु बन्धवामित्वं वक्ष्ये / तत्र बन्धं च प्रतीत्य विंशत्युत्तरं प्रकृतिशतमविक्रियते / तथाहि-ज्ञानावरणे उत्तरप्रकृतयः पञ्च, दर्शनावरणे नव, वेदनीये द्वे, मोहे सम्यक्त्वमिश्रवर्जा षड्विंशतिः, आयुषि चतस्रः, नानि भेदान्तरसम्भवेऽपि सप्तषष्टिः, गोत्रे द्वे, अन्तराये पञ्च, सर्वमीलने विंशत्युतरं शतमिति एतच्च प्राक् सविस्तरं कर्मविपाके मावितमेव // 1 // सम्पति विंशत्युत्तरशतमध्यगवानामेव वक्ष्यमाणार्थोपयोगित्वेन प्रथम कियतीनामपि प्रकृतीनां सहं पृथक्करोति जिण सुरविउवाहारदु, देवाउ य नरयसुहमविगलतिगं। एगिदि थावराऽऽयव, नपु मिच्छं हुंड छेवढे // 2 // अण मज्झागिइ संघयण, कुखग निय इत्थि दुहगधीणतिगं / उज्जोय तिरिदुर्ग तिरिनराउ नरउरलदुग रिसह // 3 // व्याख्या-जिननाम 1 सुरद्विकं-सुरंगतिसरानुपूर्वीरूपं 3 क्रियद्विकं वैक्रियशरीरवैक्रियानोपाजलक्षणम् 5 आहारकद्विकम्-आहारकशरीरं तदङ्गोपाङ्गं च 7 देवायुष्कं च 8 नरकत्रिकं-नरकगतिनरकानुपूर्वीनरकायुष्करूपं 11. सूक्ष्मत्रिकं सूक्ष्माऽपर्याधसाधारणलक्षणं 1. विकलत्रिकं-द्वित्रिचतुरिन्द्रियजातयः 17 एकेन्द्रियजातिः 18 स्थावरनाम 19 आतपनाम 20 नपुंसकवेदः 21 मिथ्यात्वं 22 हुण्डसंस्थानं 23 सेवार्तसंहननम् 24 // 2 // __"अण" ति अनन्तानुबन्धिक्रोधमानमायालोमाः 28 'मध्याकृतयः' मध्यमसंस्थानानिन्यग्रोधपरिमण्डलं सादि वामनं कुब्बं चेति 32 मध्यमसंहननानि-ऋषभनाराचं नाराचम् अर्पनाराचं कीलिका चेति 36 "कुखग" ति अशुमविहायोगतिः 37 नीचैोत्रं 38 बीवेदः