________________ // अहम् // तपागच्छीयपूज्यश्रीदेवेन्द्रसूरिविरचितः बन्धस्वामित्वनामा तृतीयः कर्मग्रन्थः। . सावरिका सम्यग् बन्धवामित्वदेशकं वर्धमानमानम्य / बन्धस्वामित्वस्य, व्याख्येयं लिख्यते किश्चित् // इह खपरोपकाराय यथार्थाभिधानं बन्धखामित्वप्रकरणमारिप्सुराचार्यों मङ्गलादिप्रतिपादिकां गाथामाह पंधविहाणविमुकं, वंदिय सिरिवद्धमाणजिणचंदं। . गइयाईसुं वुच्छं, समासओ पंधसामित्तं // 1 // व्याख्या-इह प्रथमाघेन मङ्गलं द्वितीयाधेनाऽभिधेयं साक्षादुक्तम् / प्रयोजनसम्बन्धौ तु सामर्थ्यगम्यौ / तत्र बन्धः-कर्मपरमाणूनां जीवप्रदेशैः सह सम्बन्धस्तस्य विधानं-मिथ्यात्वादिभिर्बन्धहेतुभिर्निर्वर्तनं बन्धविधानं तेने विमुक्तः स तथा तं बन्धविधानविमुक्कं वन्दित्वा श्रीवर्धमानजिनचन्द्रम् 'वक्ष्ये' अभिधास्ये 'समासतः' संक्षेपतो न विस्तरेण, किम् ! इत्याह'बन्धखामित्वं' बन्धः-कर्माणूनां जीवप्रदेशैः सह सम्बन्धस्तस्य खामित्वम्-आधिपत्यं जीवानामिति गम्यते / केषु ? “गइयाईसुं" ति गतिरादिर्येषां तानि गत्यादीनि, आदिशब्दाद् इन्द्रियादिपरिग्रहः, तेषु गत्यादिषु मार्गणास्थानेषु / अत्र चेयं मार्गणास्थानप्रतिपादिका बृहदन्धखामिलगाथा- . गइ 1 इंदिए य 2 काए 3, जोए 4 वेए 5 कसाय 6 नाणे य 7 / / संजम 8 देसण 9 लेसा 10, भव 11 सम्मे 12 सन्नि 13 आहारे 14 // (गा० 2) तत्र गतिश्चतुर्धा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिदेवगतिरिति 1 / इन्द्रियं स्पर्शनरसनप्राणचक्षुःश्रोत्रभेदात् पञ्चधा, इन्द्रियग्रहणेन च तदुपलक्षिता एकेन्द्रियद्वीन्दियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया गृह्यन्ते 2 / कायः षोढा पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् 3 / योगः पञ्चदशधा-सत्यमनोयोगः 1 असत्यमनोयोगः 2 सत्यासत्यमनोयोगः 3 असत्यामृषामनोयोगः 4 सत्यवाग्योगः 5 असत्यवाग्योगः 6 सत्यासत्यवाग्योगः 7 असत्यामृषावाग्योगः 8 वैक्रियकाययोगः 9 आहारककाययोगः 10 औदारिककाययोगः 11 वैक्रियमिश्रकाययोगः 12 आहारक १°न विमुक्कं वन्दिक० ग० 10 //