________________ बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः / अणचउवीसविरहिया, सनरदुगुच्चा य सयरि मीसदुगे। सतरसउ ओहि मिच्छे, पजतिरिया विणु जिणाहारं // 7 // व्याख्या-प्रागुक्ता एकनवतिरनन्तानुबन्ध्यादिचतुर्विशतिप्रकृतिभिर्विरहिता नरद्विकोचैगोत्राभ्यां च सहिता सप्ततिर्भवति, सा च "मीसदुगे" ति मिश्राऽविरतगुणस्थानद्वये द्रष्टव्या। इह सप्तम्यां नरायुस्तावद् न बध्यत एव, तहन्धाभावेऽपि च मिश्रगुणस्थानकेऽविरतगुणस्थानके च नरद्विकं बध्यते / अयमर्थः-नरद्विकस्य नरायुषा सह नावश्यं प्रतिबन्धो यदुत यत्रैवायुर्बध्यते तत्रैव गत्यानुपूर्वीद्वयमपि, तस्याऽन्यदाऽपि बन्धात्; मिथ्यात्वसासादनयोस्तु कलषाध्यवसायत्वेन नरद्विकं न बध्यते / एवं नरकगतौ बन्धवामित्वं प्रतिपाद्य.अथ तिर्यग्गतौ तदाह-"सतरसउ" इत्यादि / विंशत्युत्तरशतं जिननामाऽऽहारकद्विकं च विना शेषं सप्तदशोत्तरशतमोघे मिथ्यादृष्टिगुणस्थाने च पर्याप्तास्तिर्यञ्चो बध्नन्ति / अत्रौघे तिरश्चां सत्यपि सम्यक्त्वे भवप्रत्ययादेव तथाविधाध्यवसायाभावात् तीर्थकरनाम्नः सम्पूर्णसंयमाभावाद् आहारकद्विकस्य च बन्धो नास्तीति हृदयम् // 7 // विणु नरयसोल सासणि, सुराउ अण एगतीस विणु मीसे / ससुराउ सयरि सम्मे, बीयकसाए विणा देसे // 8 // व्याख्या-प्रागुक्तं सप्तदशोत्तरशतं नरकत्रिकादिषोडशप्रकृतीविना एकोत्तरशतं सासादने पर्याप्ततिरश्वाम् / एतदेवैकोत्तरशतं सुरायुरनन्तानुबन्ध्याद्यकत्रिंशत्प्रकृतीश्च विना एकोनसततिः, सा मिश्रगुणस्थाने बध्यते / अयं भावार्थः- "सम्मामिच्छट्ठिी आऊबंध पि न करेइ / " इति वचनाद् अत्र सुरनरायुषोरबन्धः, अनन्तानुबन्ध्यादयश्च पञ्चविंशतिप्रकृतयः सासादन एवं व्यवच्छिन्नबन्धाः, तथा मनुष्यास्तिर्यश्चश्च मिश्रगुणस्थानकस्था अविरतसम्यग्ह. ष्टिवद् देवाईमेव बध्नन्ति, तेन नरद्विकौदारिकद्विकवज्रऋषभनाराचानामपि बन्धाभावः / एषैव एकोनसप्ततिः सुरायुषा सहिता सप्ततिः 'सम्यक्त्वे' अविरतगुणस्थानके भवति / सप्ततिः 'द्वितीयकषायैः' अप्रत्याख्यानक्रोधमानमायालोभैविना षट्षष्टिदेशविरतगुणस्थाने बध्यते // 8 // अथ तिर्यग्गतिबन्धाधिकार एव ग्रन्थलाघवार्थे मनुष्यगतावपि बन्धं दर्शयति इय चउगुणेसु वि नरा, परमजया सजिण ओहु देसाई। जिणइकारसहीणं, नवसउ अपजत्ततिरियनरा // 9 // व्याख्या-यथा पर्याप्ततिरश्चां मिथ्यादृष्ट्यादिषु चतुर्पु गुणस्थानेषु सप्तदशोत्तरशतादिको बन्ध उक्तः इति' एवं पर्याप्तनरा अपि चतुर्षु-मिथ्यादृष्टिसासादनमिश्राविरतिगुणस्थानेषु सप्तदशोतरशतादिबन्धखामिनो मन्तव्याः। परम्' अयताः अविरतसम्यग्दृष्टयः पर्याप्तनराः “सजिण" ति अविरतसम्यग्दृष्टिपर्याप्ततिर्यग्बन्धयोग्यसप्ततिर्जिननामसहिता एकसप्ततिखा बन्नन्ति, जिननामकर्मणोऽपि बन्धकत्वात् तेषाम् / “ओहु देसाइ" ति देशविरतादिगुणस्थानकेषु गुणस्थानका माश्रयणे च पर्याप्तनराणां पुनः 'ओघः' सामान्यो बन्धोऽवसेयः / स च कर्मस्तबोक एव / यतः कर्मस्तवग्रन्थे सामान्यतो गुणस्थानकेषु बन्धः प्रतिपादितो न पुनः किञ्चन गत्यादिमा१ सम्यग्मिध्यादृष्टिरायुर्वन्धमपि न करोति //