________________ 94 चतखोपज्ञटीकोपेतः [गाथा तृतीयादिषु भागेषु चतुर्दश च त्रयोदश च द्वादश च षट् च पञ्च च चत्वारि च त्रीणि चेति द्वन्द्वः, तैरधिकं शतम् , “तिहिय सय" इत्यत्राकारलोपो विभक्तिलोपश्च प्राकृतत्वात् , 'क्रमशः' क्रमेण सत्तायां भवति / कथम् ! इत्याह-"नपुइत्थि" इत्यादि / नपुं च-नपुंसकवेदः स्त्री च-स्त्रीवेदः हास्यषट्कं च-हास्यरत्यरतिशोकमयजुगुप्साख्यं पुमांश्च-पुंवेदः नपुंस्त्रीहास्यषट्कपुमांसः, क्रोधश्च-कोपः मदश्च-मदो मानोऽहकार इति पर्यायाः माया चनिकृतिः क्रोधमदमायाः, तुर्याः-चतुर्थाः संज्वलनाः क्रोधमदमायास्तुर्यक्रोधमदमायाः, नपुंस्त्रीहास्यषदकपुमांसश्च तुर्यक्रोधमदमायाश्च नपुंस्त्रीहास्यषट्क'तुर्यक्रोधमदमायाः, तासां क्षयो नपुंस्त्रीहास्यषट्क'तुर्यक्रोधमदमायाक्षयः / 'मायखओ' इत्यत्र हखत्वं “दीर्घहखौ मिथो वृत्तौ" (सि०८-१-४) इत्यनेन प्राकृतसूत्रेण / इति गाथाक्षरार्थः / भावार्थस्त्वयम्-अनिवृतिबादरस्य तृतीये भागे द्वितीयतृतीयकषायाष्टकक्षये चतुर्दशाधिकं शतम् , चतुर्थभागे नपुंसकवेदक्षये त्रयोदशाधिकं शतम् , पञ्चमे भागे स्त्रीवेदक्षये द्वादशाधिकं शतम् , षष्ठे भागे हास्यषट्कक्षये षडधिकं शतम् , सप्तमे भागे पुंवेदक्षये पञ्चाधिकं शतम् , अष्टमे भागे संज्वलनकोधक्षये चतुरधिकं शतम् , नवमे भागे संज्वलनमानक्षये त्र्यधिकं शतम् , संज्वलनमायाक्षये तु ब्यधिकं शतं सत्चायां भवति / तच्च सूक्ष्मसम्पराये // 29 // तथा चाह सुहुमि दुसय लोहंतो, खीणदुचरिमेगसय दुनिद्दखओ। नवनवइ चरमसमए, चउदंसणनाणविग्धंतो // 30 // "सुहुमि" ति सूक्ष्मसम्पराये 'द्विशतं' द्वाभ्यामधिकं शतं सत्तायां भवति / तत्र च 'लोभान्तः' संज्वलनलोभस्य क्षयः / ततः “खीणदुचरिमेगसउ" ति क्षीणमोहद्विचरमसमये 'एकशतम्' एकाधिकं शतं सत्तायाम् / तत्र च "दुनिद्दखउ" ति निद्राप्रचलयोर्द्वयोः क्षयो भवति, ततो नवनवतिश्चरमसमये क्षीणमोहगुणस्थानस्येति शेषः / तत्र चत्वारि च तानि दर्शनानि च चतुर्दर्शनानि-चक्षुरचक्षुरवधिकेवलदर्शनावरणाख्यानि, ज्ञानानि ज्ञानावरणानिमतिश्रुतावधिमनःपर्यायकेवलज्ञानावरणलक्षणानि पञ्च, विनानि-दानलाभभोगोपभोगवीर्यविमरूपाणि पञ्च, तेषामन्तो भवति // 30 // ततः पणसीइ सजोगि अजोगि दुचरिमे देवखगइगंधदुर्ग। . फासह वन्नरसतणुबंधणसंघायपण निमिणं // 31 // पञ्चाशीतिः सयोगिकेवलिनि सत्तायां भवति / ततः "अजोगि दुचरिमे" ति अयोगिकेवलिनि द्विचरमसमये इत्येतासां द्विसप्ततिप्रकृतीनां क्षयो भवति / ता एवाहः-"देवखगइगंधदुर्ग" ति / द्विकशब्दस्य प्रत्येकं योगाद् देवद्विकं-देवगतिदेवानुपूर्वीरूपम् , खगतिद्विकंशुभविहायोगत्यशुभविहायोगतिरूपम् , गन्धद्विकं-सुरभिगन्धाऽसुरभिगन्धाख्यम्, "फास?" ति स्पर्शाष्टकं-गुरुलघुमृदुखरशीतोष्णस्निग्धरूक्षाख्यम् , “वन्नरसतणुबंधणसंघायपण" ति पञ्चकशब्दस्य प्रत्येकं सम्बन्धाद् वर्णपञ्चकं-कृष्णनीललोहितहारिद्रशुक्लाख्यम् , रसपञ्चकं-तिक्तकटुंकषायाम्लमधुररूपम् , तनुपञ्चकम्-औदारिकवैक्रियाहारकतैजसकार्मणतनुलक्षणम् , एवं तनुनाम्ना बन्धनपञ्चकं सङ्घातनपञ्चकं च वाच्यम् , “निमिण" ति निर्माणमिति // 31 //