________________ 26-29] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / दनवाप्तेः / उक्तं च सुरनरयतिरियआउं, निययभवे सधजीवाणं / (बृ० क० स्त० गा०६) इति / इयं चैतेषु गुणस्थानेषु सामान्यजीवानां सम्भवमाश्रित्य सत्ता वर्णिता, न त्वधिकृतस्तवस्तुत्यस्य चरमजिनपरिवृढस्य, अस्याः सुरनारकतिर्यगायुःसम्भवापेक्षणीयत्वाद्, जिनस्य च तदसम्भवात् , तस्यापि च प्राग्भवापेक्षया सम्भवो वाच्यः / इदमेव पञ्चचत्वारिंशं शतं सप्तकमनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वाख्यं विनाऽष्टात्रिंशं शतं भवति / कियन्ति गुणस्थानानि यावद् ! इत्याह-"जा अनियट्टी पढमभागु" ति, इहानिवृत्तिबादराद्धाया नव भागाः क्रियन्ते, ततोऽविरते देश विरते प्रमत्तेऽप्रमते निवृत्तिबादरेऽनिवृत्तिबादरस्य च प्रथमो भागखावदष्टात्रिंशं शतं भवति / उक्तं च . 'संते अडयालसयं, खवगं तु पडुच्च होइ पणयालं / आउतिगं नत्थि तहिं, सत्तगखीणम्मि अडतीसं // (बृ०. क० स्त० भा० गा० 29) पैणयालं अडतीस, अविरयसम्माउ अप्पमत्तु ति / अप्पुवे अडतीसं, नवरं खवगम्मि बोधवं // __ अथ क्षपकश्रेणिमधिकृत्याऽनिवृत्तिबादरादिषु प्रकृतिषु सत्ता वर्ण्यते उपशमश्रेणिसत्तायास्त्विह नाधिकार इति __थावरतिरिनिरयायवदुग थीणतिगेग विगल साहारं / - सोलखओ दुवीससयं, बियंसि बियतियकसायंतो // 28 // इहानिवृत्तिबादरस्य प्रथमे भागेऽष्टत्रिंशं शतं सत्तायां भवति / तत्र च "थावरतिरिनिरयाय. वदुग" ति द्विकशब्दस्य प्रत्येकं योगात् स्थावरद्विकं-स्थावरसूक्ष्मलक्षणम्, तिर्यद्विकं-तिर्यगतितिर्यगानुपूर्वीरूपम् , नरकद्विकं-नरकगतिनरकानुपूर्वीलक्षणम् , आतपद्विकम्-आतपोद्योताख्यम् , “थीणतिग" ति स्त्यानर्द्धित्रिकं-निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिलक्षणम् , "इग" ति एकेन्द्रियजातिः, “विगल" ति विकलेन्द्रियीतयः-दीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिलक्षणोंः, "साहारं" ति साधारणनाम इत्येतासां षोडशानां प्रकृतीनां क्षयः सत्ता. माश्रित्य भवति / ततोऽनिवृत्तिवादरस्य 'यंशे' द्वितीयभागे द्विविंशं शतं भवति / तत्र "बियतियकसायं तु" ति कषायशब्दस्य प्रत्येक योगाद् द्वितीयकषायाः-अप्रत्याख्यानावरणाश्चत्वारः, तृतीयकषायाः-प्रत्याख्यानावरणाश्चत्वार इत्येतासामष्टानां प्रकृतीनामन्तः-क्षयः / ततस्तृतीयांशे चतुर्दशशतं भवतीति // 28 // एतदेवाह. तइयाइसु चउदसतेरवारछपणचउतिहिय सय कमसो। नपुइत्थिहासछगपुंसतुरियकोहमयमायखओ // 29 // 1 सुरनरकतिर्यगायुर्निजकभवे सर्वजीवानाम् // 2 सत्तायामष्टचत्वारिंशं शतं क्षपकं तु प्रतीस भवति पञ्चचलारिंशम् / आयुत्रिकं नास्ति तत्र सप्तके क्षीणेऽष्टात्रिंशम् // 3 पञ्चचवारिंशमष्टाविंशमविरतसम्यक्खादप्रमत्त इति / अपूर्वेऽष्टात्रिंशं नवरं क्षपके बोद्धव्यम् // ४°जातिः-दीक० घ०॥ ५°णा 'साक० 10 //