________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा तीर्थकरनानोऽपि सत्ता सम्भवति; साखादनमिश्रयोस्तु तस्मिन्नेव जिननामरहिते सप्तचत्वारिंशं शतं सत्तायां, जिननामसत्कर्मणो जीवस्य तद्भावाऽनवाप्तेः, तद्वन्धारम्भस्य च शुद्धसम्यक्त्वप्रत्ययत्वात् / यदुक्तं बृहत्कर्मस्तवभाष्ये तित्थयरेण विहीणं, सीयालसयं तु संतए होइ / सासायणम्मि उ गुणे, सम्मामीसे य पयडीणं // (गा० 25) अविरतसम्यग्दृष्ट्यादीनामक्षिप्तदर्शनसप्तकानामष्टचत्वारिंशस्यापि शतस्य सत्ता सम्भवतीति // 25 // .. . . . अप्पुव्वाइचउक्के, अण तिरिनिरयाउ विणु पिआलसयं / सम्माइचउसु सत्तगखयम्मि इगचत्तसयमहवा // 26 // - गाथापर्यन्तवय॑थवाशब्दस्य सम्बन्धात् पूर्व तावदष्टचत्वारिंशं शतं सत्तायामुक्तम् , अथवाऽयमपरः सत्तामाश्रित्य भेदः, तथाहि-'अपूर्वादिचतुष्के' अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहरूपे "अण" ति अनन्तानुबन्धिचतुष्कं "तिरिनिरयाउ" ति आयु:शब्दस्य प्रत्येकं योगात् तिर्यगायुर्नरकायुश्च विना द्विचत्वारिंशं शतं भवतीति / अयमाशयः-यः कश्चिद् विसंयोजितानन्तानुबन्धिचतुष्को बद्धदेवायुमनुजायुषि वर्तमान उपशमश्रेणिमारोहति, तस्य तिर्यगायुर्नरकायुरनन्तानुबन्धिचतुष्कलक्षणप्रकृतिषट्करहितं शेषं द्विचत्वारिंशं शतं सत्तायां प्राप्यते / यदुक्तं वृहत्कर्मस्तवभाष्ये अणतिरिनारयरहियं, बायालसयं वियाण संतम्मि / उवसामगस्सऽपुबानियट्टि सुहुमो व संतम्मि // (गा० 26) "सम्माइचउसु" ति सम्यक्त्वादिचतुर्षु-अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमतेषु "सत्तगखयम्मि" ति अनन्तानुबन्धिचतुष्कमिथ्यात्वमिश्रसम्यक्त्वलक्षणसप्तकक्षये सत्येकचत्वारिंशं शतमथवा सतायां भवति / इहाप्यथवाशब्द आवृत्त्या योज्यते / यदुक्तं बृहत्कर्मस्तवस्त्रे अणमिच्छमीससम्मं, अविरयसम्माइअप्पमत्ता / (गा० 6) इति // 26 // खवगं तु पप्प चउसु वि, पणयालं नरयतिरिसुराउ विणा। सत्तग विणु अडतीसं, जा अनियही पढमभागो // 27 // क्षपकं 'तुः पुनरर्थे, क्षकं पुनः 'प्रतीत्य' आश्रित्य 'चतुर्ध्वपि' अविरतदेशविरतपमताप्रमचेषु "पणयालं" ति पञ्चचत्वारिंशं शतमथवा भवति / अथवाशब्द इहापि सम्बध्यते / कथम् ! इत्याह-"नरयतिरिसुराउ विण" ति, आयुःशब्दस्य प्रत्येकं योगात् नरकायुस्तिर्यगायुः सुरायुर्विना-अन्तरेण / इदमुक्तं भवति-यो जीवो नारकतिर्यक्सुरेषु चरमं तद्भवमनुभूय मनुष्यतयोत्पन्नस्तस्य नारकतिर्यक्सुरायूंषि खखभवें व्यवच्छिन्नसत्ताकानि जातानि, पुनस्त 1 तीर्थकरेण विहीनं सप्तचत्वारिंशं शतं तु सत्तायां भवति / साखादने तु गुणे सम्यग्मिश्रे च प्रकृतीनाम् // 2 अनतिर्यनारकरहितं द्वाचवारिंशं शतं विजानीहि सत्तायाम् / उपशामकस्य अपूर्वस्याऽनिवृत्तेः सूक्ष्मस्य (अपूर्वस्पत्यादी विभक्तिव्यत्ययात्षष्ठी) वा सत्तायाम् (अनेसनेनानन्तानुबन्धिचतुष्कं गृह्यते ) // 3 अनमिथ्यामिधसम्यक् अविरतसम्यक्ताचप्रमत्तान्तम् // (अत्राप्यनेत्यनेनानन्तानुबन्धिचतुष्क।) ४°पकजिन पुख.ग०॥