________________ 23-25] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / 91 प्रकृतीनां प्रमत्तेऽन्तः-व्यवच्छेद उदीरणां प्रतीत्य यासां ताः प्रमत्तान्ताः / अयमत्र भावार्थ:-स्त्यानचित्रिकं प्रमादरूपत्वाद् अप्रमत्तादिषु नास्त्येव, कुतस्तेषु तदुदीरणा!; आहारकशरीरं च विकुर्वाण औत्सुक्याद् यतिः प्रमत्त एवेति अप्रमत्वादिषु तदपि नास्ति, कुतस्तेषु तदुदीरणा, सातासातमनुजायुषां हि प्रमादसहितेनैव योगेनोदीरणा भवति नान्येनेत्युत्तरेषु न तदुदीरणा / तदयमत्र तात्पर्यार्थः-----उदयमाश्रित्य प्रमत्ते हि स्त्यानर्द्धित्रिकाहारकद्विकाख्यपश्चप्रकृतयो व्यवच्छिद्यन्ते, उदीरणामाश्रित्य पुनः स्त्यानचित्रिकाहारकद्विकसातासातमनुजायुर्लक्षणा अष्टौ प्रकृतय इति मनुजायुःसातासातरूपप्रकृतित्रयेणाऽप्रमत्तादिषु ऊना उदीरणा वाच्येति / 'अयोगी' अयोगिकेवली 'अनुदीरकः' न किमपि कर्मोदीरणया क्षिपति, योगाभावात् , उदीरणा हि योगकृतकरणविशेष इति भगवान् परमप्रयत्नवान् सर्वसंवररूपचारित्रधर्मवान् वेत्यर्थः // 24 // इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायामुदीरणाधिकारः समाप्तः // सुकृतं मया यदाप्त, विवृण्वतोदीरणाधिकारमिमम् / तेनास्तु सर्वलोको, दुष्कर्मोदीरणारहितः // अथ सत्तालक्षणकथनपूर्वकं यथा तेन भगवता त्रिलोकीपतिना श्रीमद्वर्धमानखामिना सत्तामाश्रित्य गुणस्थानेषु कर्माणि क्षपितानि तथा प्रतिपादयन्नाह सत्ता कम्माण ठिई, बंधाईलद्धअत्तलाभाणं / - संते अडयालसयं, जा उवसमु विजिणु बियतइए // 25 // सत्ता उच्यत इति शेषः, किम् ? इत्याह-'कर्मणां' ज्ञानावरणादियोग्यपरमाणूनां स्थितिः अवस्थानं सद्भाव इति पर्यायाः। किंविशिष्टानां कर्मणाम् ? इत्याह-'बन्धादिलब्धात्मलाभाना' तत्र मिथ्यात्वादिभिर्हेतुभिः कर्मयोग्यपुद्गलैरात्मनो वययःपिण्डवद् अन्योऽन्यानुर्गमाभेदात्मकः सम्बन्धो बन्धः, आदिशब्दात् सङ्कमकरणादिपरिग्रहः, ततो बन्धादिमिर्लब्धःप्राप्त आत्मलाभः-आत्मखरूपं यैस्तानि बन्धादिलब्धात्मलाभानि तेषां बन्धादिलब्धात्मलाभानां कर्मणां या स्थितिः सा सत्ता, तस्यां "संते" ति सत्कर्मणि-सत्तायामष्टाचत्वारिंशं शतं प्रकृतीनां भवति / कियन्ति गुणस्थानानि यावद् ! इत्याह-"जा उवसमु" ति 'यावदुपशमम्' उपशान्तमोहम् / अयमर्थः-मिथ्यादृष्टिगुणस्थानात् प्रभृत्युपशान्तमोहगुणस्थानं यावदष्टाचत्वारिंशं शतं सत्तायां भवति / किमविशेषेण ! नेत्याह-"विजिणु बियतइए" ति विगतं जिननाम यस्मात् तद् विजिनं जिननामविरहितं तदेवाष्टाचत्वारिंशं शतं भवति / क! इत्याह-द्वितीये-साखादने तृतीये-मिश्रदृष्टौ, “सासणमिस्सरहिएसु वा तित्थं" इति वचनात् साखादनमिश्रयोः सप्तचत्वारिंशं शतं भवतीत्यर्थः / इदमत्र हृदयम्-इह मिथ्यादृष्टरष्टचत्वारिंशमपि शतं सत्तायाम् ; यदा हि प्राग्बद्धनरकायुः क्षायोपशमिकं सम्यक्त्वमवाप्य तीर्थकरनाम्नो बन्धमारभते तदाऽसौ नरकेषूत्पद्यमानः सम्यक्त्वमवश्यं वमतीति मिथ्यादृष्टे१°तः कर° ग० उ०॥ २°गमोऽमे° उ०॥ 3 सास्वादन मिश्ररहितेषु वा तीर्थकरम् //