________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा स्यान्तः-व्यवच्छेदो यासां ताश्चरमसमयान्ताः / ता एवाह-सुभगं आदेयं “जस" चि यशःकीर्तिनाम अन्यतरवेदनीयं सयोगिकेवलिचरमसमयव्यवच्छिन्नोद्वरितं वेदनीयमित्यर्थः // 22 // ___ "तसतिगं" ति त्रसत्रिकं-त्रसबादरपर्याप्ताख्यं “पणिदि" ति पञ्चेन्द्रियजातिः "मणुयाउगइ" ति मनुजशब्दस्य प्रत्येकं योगात् मनुजायुर्मनुजगतिः "जिण" ति जिननाम "उच्चं" ति उच्चैर्गोत्रम् इतिशब्दो द्वादशप्रकृतिपरिसमाप्तिद्योतक इति // // इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायामुदयाधिकारः समाप्तः // उदयाधिकारमेनं, विवृण्वता यन्मयाऽर्जितं सुकृतम् / दुष्कर्मोदयरहितो, लोकः सर्वोऽपि तेनास्तु // अथ तस्य भगवतः कसिन् गुणस्थाने कियत्यः प्रकृतय उदीरणामाश्रित्य व्यवच्छिन्नाः ! इत्येतदतिदेशद्वारेणाह- . उदउ व्वुदीरणा परमपमत्ताईसगगुणेसु // 23 // उदयवद् उदीरणा पूर्वोक्तशब्दार्था गुणस्थानेषु वक्तव्या / किमुक्तं भवति?-यावतीनां प्रकृतीनामुदयखामी तावतीनामुदीरणाखाम्यपीति / अतिप्रसङ्गनिवृत्त्यर्थमाह-"परमपमचाईसगगुणेसु"ति / 'परं' केवलमियान् विशेषः-अप्रमत्त आदौ येषां तेऽप्रमत्तादयः गुणाःगुणस्थानानि, सप्त च ते गुणाश्च सप्तगुणाः, अप्रमत्तादयश्च ते सप्तगुणाश्च अप्रमत्तादिसप्तगुणास्तेष्वप्रमत्तादिसप्तगुणेषु // 23 // किम् ! इत्याह एसा पयडितिगूणा, वेयणियाऽऽहारजुगल थीणतिगं। मणुयाउ पमत्तंता, अजोगि अणुदीरगो भगवं // 24 // // उदीरणा सम्मत्ता॥ 'एषा' उदीरणा प्रकृतित्रिकेण ऊना-हीना वक्तव्या / इयमत्र भावना-मिथ्यादृष्टेः सप्तदशोतरशतस्योदयः, उदीरणाऽप्येवम् / साखादनस्य एकादशशतस्योदयस्तथैवोदीरणाऽपि / मिश्रस्योदयः शतस्य, उदीरणाऽपि / अविरतसम्यग्दृष्टेरुदयश्चतुरुत्तरशतस्य, तथैवोदीरणा / देशविरतस्य सप्ताशीतेरुदयः, उदीरणाऽपि / प्रमत्तस्यैकाशीतेरुदयः, उदीरणाऽपि च / अप्रमते उदयः षट्सप्ततेः, उदीरणा त्रिसप्ततेः 1 / अपूर्वकरणे उदयो द्विसप्ततेः, उदीरणा एको नसप्ततेः 2 / अनिवृत्तिबादरे उदयः षट्पष्टेः उदीरणा त्रिषष्टेः 3 / सूक्ष्मसम्पराये उदयः षष्टेः, उदीरणा सप्तपञ्चाशतः 4 / उपशान्तमोहे उदय एकोनषष्टेः, उदीरणा षट्पञ्चाशतः 5 / क्षीणमोहे उदयः सप्तपञ्चाशतः, उदीरणा चतुष्पश्चाशतः 6 / सयोगिकेवलिन्युदयो द्विचत्वारिंशतः, उदीरणा एकोनचत्वारिंशत 7 इति / ननु केन प्रकृतित्रिकेणाऽप्रमत्तादिषूदीरणा ऊना: इत्याशझ्याह-"वेयणियाहारजुगल" ति, युगलशब्दस्य प्रत्येकं योजनाद् वेदनीययुगलं-सातवेदनीयाऽसातवेदनीयरूपम् , आहारकयुगलम्-आहारकशरीराहारकाङ्गोपाङ्गलक्षणम् , "थीणतिगं" ति 'स्त्यानर्द्धित्रिक' निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपं, मनुष्यायुः इत्येतासामष्टानां