________________ 19-22] __ कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / तित्थुदया उरलाऽथिरखगइदुग परित्ततिग छ संठाणा। अगुरुलहुवन्नचउ निमिणतेयकम्माइसंघयणं // 21 // - ननु पञ्चपञ्चाशतो ज्ञानावरणपञ्चकाऽन्तरायपञ्चकदर्शनचतुष्कलक्षणप्रकृतिचतुर्दशकापनयन एकचत्वारिंशदेव भवति, ततः कथमुक्तं सयोगिनि द्विचत्वारिंशद्! इत्याह-"तित्थुदय" ति तीर्थोदयात्' तीर्थकरनामोदयादित्यर्थः / यतः सयोग्यादौ तीर्थकरनामोदयो भवति, यदुक्तम् उदए जस्स सुरासुरनरवइनिवहेहिं पूहओ होइ / . तं तित्थयरन्नाम, तस्स विवागो हु केवलिणो // (वृ० क० वि० गा० 149) ततः पूर्वोत्तैकचत्वारिंशति तीर्थकरनाम क्षिप्यते जाता द्विचत्वारिंशत्, सा च सयोगिनि भवतीति। "उरलाऽथिरखगइदंग" ति द्विकशब्दस्य प्रत्येकं योगाद् औदारिकद्विकम्-औदारिकशरीरौदारिकाङ्गोपाङ्गलक्षणम् अस्थिरद्विकम्-अस्थिराऽशुभाख्यं खगतिद्विकं-शुभविहायोगत्यशुभविहायोगतिरूपम् “परिचतिग" ति प्रत्येकत्रिकम्-प्रत्येकस्थिरशुभाख्यम् "छ संठाण" ति पसंस्थानानि-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुजहुण्डखरूपाणि संस्थानशब्दस्य च पुंस्त्वं प्राकृतलक्षणवशात् , यदाह पाणिनिः खप्राकृतलक्षणे-"लिंगं व्यभिचार्यपि" / "अगुरुलहुवन्नचउ" ति चतुःशब्दस्य प्रत्येकं सम्बन्धाद् अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छासाख्यं वर्णचतुष्कं-वर्णगन्धरसस्पर्शरूपम् "निमिण" ति निर्माणं "तेय" चि तैजसशरीरं "कम्म" ति कार्मणशरीरं “आइसंघयण" ति प्रथमसंहननं-वज्रर्षभनाराचसंहननमित्यर्थः // 21 // दूसर सुसर सायासाएगयरं च तीस वुच्छेओ। बारस अजोगि सुभगाइज्जजसन्नयरवेयणिय // 22 // तसतिग पर्णिदि मणुयाउगइ जिणुच्चं ति चरमसमयंता।. // उदओ सम्मत्तो॥ दुःखरं सुखरं सातं च-सुखम् असातं च-दुःखं सातासाते तयोरेकतरम्-अन्यतरत् सातं वाऽसातं वेत्यर्थः, तेदेतासां त्रिंशतः प्रकृतीनां सयोगिकेवलिन्युदयव्यवच्छदः। तत्रैकतरवेदनीयं यदयोगिकेवलिनि न वेदयितव्यं तत् सयोगिकेवलिचरमसमये व्युच्छिन्नोदयं भवति, पुनरुचरत्रोदयाभावात् / दुःखरसुखरनाम्नोस्तु भाषापुद्गलविपाकित्वाद् वाग्योगिनामेवोदयः, शेषाणां पुनः शरीरपुद्गलविपाकित्वात् काययोगिनामेव / तेन हि योगेन पुद्गलग्रहणपरिणामालम्बनानि, ततस्तेषु गृहीतेष्वेतेषां कर्मणां खखविपाकेनोदयो भवति, तेनाऽयोगिकेवलिनि तद्योगाभावात् तदुदयाभाव इति एतास्त्रिंशत् प्रकृतयः पूर्वोक्तद्विचत्वारिंशतोऽपनीयन्ते, ततः शेषा द्वादश प्रकृतयोऽयोगिकेवलिन्युदयमाश्रित्य भवन्तीति / एतदेवाह-"बारस अजोगि" इत्यादि / द्वादश प्रकृतयोऽयोगिकेवलिनि 'चरमसमयान्ताः' चरमसमयेऽयोगिकेवलिगुणस्थान 1 उदये यस्य सुरासुरनरपतिनिवहैः पूजितो भवति / तत् तीर्थकरनाम तस्य विपाको हि केवलिनः / २तत एता ख०७०॥ क. 12