________________ . देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः ( শাখা दये तु श्रेणिमारोढुमेव न शक्यते तथाविधशुद्धेरभावाद् इत्युत्तरेषु तदुदयाभावः / "हासाइछक्कअंतु" चि हास्यमादौ यस्य षट्कस्य तद् हास्यादिषट्कं-हास्यरत्यरतिशोकमयजुगुप्साख्यं तस्यान्तोऽपूर्वकरणे भवति, संक्लिष्टतरपरिणामत्वाद् एतस्य, उत्तरेषां च विशुद्धतरपरिणामत्वात् तेषु तदुदयाभाव इति / उत्तरेष्वप्ययमुदयव्यवच्छेदहेतुरनुसरणीयः / तत इदं प्रकृति. षट्कं पूर्वोक्तद्विसप्ततेरपनीयते शेषा "छसहि अनियट्टि" ति षट्षष्टिरनिवृत्तिवादरे भवति, उदयमाश्रित्येति शेषः / “वेयतिगं" ति वेदत्रिकं-स्त्रीवेदपुंवेदनपुंसकवेदाख्यम् // 18 // संजलणतिगं छच्छेओ सहि सुहुमम्मि तुरियलोभंतो। उवसंतगुणे गुणसहि रिसहनारायदुगअंतो॥१९॥ 'संज्वलनत्रिक' संज्वलनक्रोधमानमायारूपमित्येतासां षण्णां प्रकृतीनामनिवृत्तिबादरे छेदो भवति / तत्र स्त्रियाः श्रेणिमारोहन्त्याः स्त्रीवेदस्य प्रथममुदयच्छेदः ततः क्रमेण पुंवेदस्य नपुंसकवेदस्य संज्वलनत्रयस्य चेति, पुंसस्तु श्रेणिमारोहतः प्रथम पुंवेदस्योदयच्छेदस्ततः क्रमेण स्त्रीवेदस्य षण्ढवेदस्य संज्वलनत्रयस्य चेति, षण्डस्य तु श्रेणिमयोहतः प्रथमं षण्ढवेदस्योदयच्छेदस्ततः स्त्रीवेदस्य पुंवेदस्य संज्वलनत्रयस्य चेति / एतत्प्रकृतिषट्कं पूर्वोक्तषट्पष्टेरपनीयते, शेषा "सहि मुहुमम्मि" ति षष्टिः सूक्ष्मसंपराये उदये भवति / अत्र च 'तुर्यलोभान्तः' चतुर्थलोमान्तः संज्वलनलोभव्यवच्छेद इत्यर्थः / तत इयमेका प्रकृतिः षष्टेरपनीयते शेषा. 'उपशान्तगुणे' उपशान्तमोहगुणस्थाने एकोनषष्टिरुदये भवति / "रिसहनारायद्गअंतु" ति ऋषभनाराचद्विकम्-ऋषभनाराचसंहनननाराचसंहननाख्यं तस्यान्त उपशान्तगुणे भवति, प्रथमसंहननेनैव क्षपकश्रेण्यारोहणात् क्षीणमोहादौ तदुदयाभावः / उपशमश्रेणिस्तु प्रथमसंहननत्रयेणारुयते, तत इदं प्रकृतिद्वयं पूर्वोक्तैकोनषष्टेरपनीयते शेषा // 19 // .. .. सगवन्न खीण दुचरमि, निद्ददुगंतो य चरमि पणपन्ना। . नाणंतरायदंसणचउ छेओ सजोगि पायाला // 20 // . सप्तपश्चाशत् "खीण" ति क्षीणमोहस "दुचरिमि" ति द्विचरमसमये-चरमसमयादग् द्वितीये समये निद्राद्विकस्य-निद्राप्रचलाख्यस्य क्षीणद्विचरमसमयेऽन्त इत्येतत् प्रकृतिद्वयं पूर्वो सप्तपञ्चाशतोऽपनीयते ततः "चरमि" चि चरमसमये क्षीणमोहस्सेति शेषः, "पणपक्ष। ति पञ्चपञ्चाशद् उदये भवति / इदमुक्तं भवति-निद्राप्रचलयोः क्षीणमोहस्य द्विचरमसमये उदयच्छेदः / अपरे पुनराहुः-उपशान्तमोहे निद्राप्रचलयोरुदयच्छेदः, पञ्चानामपि निद्राणां घोलनापरिणामे भवत्युदयः, क्षपकाणां त्वतिविशुद्धत्वा न निद्रोदयसम्भवः, उपशमकानां पुनरनतिविशुद्धत्वात् स्यादपीति / "नाणंतरायदसणचउ" ति ज्ञानावरणपञ्चकं-मतिश्रुतावधिमनःपर्यायकेवलज्ञानावरणरूपम् अन्तरायपञ्चकं-दानलाभभोगोपभोगवीर्यान्तरायाख्यं वर्शनचतुष्कं-चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणमित्येतासां क्षीणमोहचरमसमये छेदो भवति, सदनन्तरं क्षीणमोहत्वाद् इत्येतत्प्रकृतिचतुर्दशकं पूर्वोक्तपञ्चपञ्चाशतोऽपनीयते, शेषकचत्वारिंशत् तीर्थकरनामोदयाच तत्प्रक्षेपे द्वाचत्वारिंशत् सयोगिकेवलिनि भवतीति / एतदेवाह"सजोगि बायाल" ति स्पष्टम् // 20 //