________________ 16-18] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / स्त्रिकषाया मयूरव्यंसकादित्वात् पूरणप्रत्ययलोपी समासः, प्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोमाः // 16 // ____ अच्छेओ इगसी, पमत्ति आहारजुगलपक्खेवा। थीणतिगाहारगदुगछेओ छस्सयरि अपमत्ते // 17 // - पूर्वोक्ताष्टप्रकृतीनां देशविरते उदयमाश्रित्य च्छेदो भवति, ततः प्रमत्ते एकाशीतिर्भवति, आहारकयुगलप्रक्षेपात् / इदमत्र हृदयम्-तिर्यग्गतितिर्यगायुषी तिर्यग्वेद्य एव, तेषु च देशविरतान्तान्येव गुणस्थानानि घटन्ते नोत्तराणीत्युत्तरेषु तदुदयाभावः; नीचैर्गोत्रं तु तिर्यग्गतिखाभाव्याद् ध्रुवोदयिकं न परावर्तते, ततश्च देशविरतस्यापि तिरश्चो नीचेर्गोत्रोदयोऽस्त्येव, मनुजेषु पुनः सर्वस्य देशविरतादेर्गुणिनो गुणप्रत्ययाद् उच्चैर्गोत्रमेवोदेतीत्युत्तरत्र नीचैर्गोत्रोदयाभावः, उद्योतनाम खभावतस्तिर्यग्वेद्यम् , तेषु च देशविरतान्तान्येव गुणस्थानानि नोत्तराणीत्युत्तरेषु तदुदयाभावः, यद्यपि यतिवैक्रियेऽप्युद्योतनामोदेति "उत्तरदेहे च देवजई" इति वचनात् तथापि स्वल्पत्वादिना केनापि कारणेन पूर्वाचार्यैर्न विवक्षितमित्यस्माभिरपि न विवक्षितम् ; तृतीयकषायोदये हि चारित्रलाम एव न भवति, उक्तं च पूज्यैः तेइयकसायाणुदए, पञ्चक्खाणावरणनामधिज्जाणं / देसिक्कदेसविरई, चरित्तलंभं न उ लहंति // (आ० नि० गा० 110) न च पूर्वप्रतिपन्नचारित्रस्य तदुदयसम्भव इत्युत्तरेषु तदुदयाभाव इत्येता अष्टौ प्रकृतयः पूर्वोक्तसप्ताशीतरपनीयन्ते शेषा एकोनाशीतिः, तत आहारकयुगलं क्षिप्यते, यतः प्रमत्तयतेराहारकयुगलस्योदयो भवतीत्येकाशीतिः / “थीणतिग" ति स्त्यानचित्रिकं-निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपम् आहारकद्विकम्-आहारकशरीराहारकाङ्गोपाङ्गलक्षणमिति प्रकृतिपञ्चकस्य प्रमत्ते छेदो भवति, ततः पूर्वोक्तकाशीतेरिदं प्रकृतिपञ्चकमपनीयते शेषा षट्सप्ततिरप्रमते उदये भवति / अयमत्राशयः-स्त्यानद्धित्रिकोदयः प्रमादरूपत्वाद् अप्रमते न सम्भवति, आहारकद्विकं च विकुर्वाणो यतिरौत्सुक्याद् अवश्यं प्रमादवशगो भवत्यत इदमप्यप्रमते उदयमाश्रित्य न जाघटीति, यत्पुनरिदमन्यत्र श्रूयते-प्रमत्तयतिराहारकं विकृत्य पश्चाद् विशुद्धिवशात् तत्रस्थ एवाप्रमत्तां यातीति तत् केनापि खल्पत्वादिना कारणेन पूर्वाचार्यैर्न विवक्षितमित्यस्माभिरपि न विवक्षितमिति // 17 // सम्मत्तंतिमसंघयणतिगच्छेओ विसत्तरि अपुव्वे / 'हासाइछक्कतो, छसहि अनियहि वेयतिगं // 18 // सम्यक्त्वम् अन्तिमसंहननत्रिकम्-अर्धनाराचसंहननकीलिकासंहननसेवार्तसंहननरूपमिस्येतत्प्रकृतिचतुष्टयस्याप्रमचे छेदो भवति, तत इदं प्रकृतिचतुष्कं पूर्वोक्तषट्सप्ततेरपनीयते शेषा द्वासप्ततिः “अपुधि" ति अपूर्वकरणे उदये भवतीति / अयमत्राशयः-सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यत इत्यपूर्वकरणादौ तदुदयाभावः, अन्तिमसंहननत्रयो 1 उत्तरदेहे च देवयती // 2 तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् / देशैकदेशविरतिं चारित्रलाभं न तु लभन्ते // . हा