________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपैतः - [गाथा मीसो कुणइ कालं" इति वचनात् ; मिश्रप्रकृतिः पुनरोदये प्राप्यते, ततः साखादनव्यबच्छिन्नं प्रकृतिनवकमानुपूर्वीत्रिकं च पूर्वोकैकादशशताद अपनीयते शेषा तिष्ठति प्रकृतीनां नवनवतिः, तत्र मिश्रप्रकृतिप्रक्षेपे जातं शतमिति / "मीसंतु" ति मिश्रगुणस्थाने मिश्रप्रकृतेरन्तो भवति, एतदुदये हि मिश्रदृष्टिरेव भवति नान्य इति / “चउसयमजए सम्माणुपुचिखेव" ति चतुर्भिरधिकं शतं चतुःशतमुदये भवति, क! इत्याह-'अयते' अविरतसम्यग्दृष्टौ, कथम् ! इत्याह-"सम्म" ति सम्यक्त्वं "अणुपुवि" ति आनुपूर्व्यश्चतस्रस्तासां क्षेपात्-प्रक्षेपात् / इदमुक्तं भवति-पूर्वोक्तशताद् मिश्रगुणस्थानव्यवच्छिन्नैका मिश्रप्रकृतिरपनीयते, शेषा नवनवतिः, तत्र सम्यक्त्वानुपूर्वीचतुष्कलक्षणं प्रकृतिपञ्चकं क्षिप्यते जातं चतुःशतम् , यतः सम्यक्त्वमत्र गुणे उदयत एव, तथाऽविरतसम्यग्दृशां यथाखं चतस्रोऽप्यानुपूर्व्य इति / "वियकसाय" ति द्वितीयकषायाः-अप्रत्याख्यानावरणाश्चत्वारः क्रोध. मानमायालोमाः // 15 // . मणुतिरिणुपुव्वि विउवाढ दुहग अणइजदुग सतरछेओ। . सगसीह देसि तिरिगइआउ निउज्जोय तिकसाया // 16 // "मणुतिरिणुपुति" ति आनुपूर्वीशब्दस्य प्रत्येकं योजनाद् मनुजानुपूर्वी तिर्यगानुपूर्वी "विउवऽg" ति वैक्रियाष्टक-वैक्रियशरीरवैक्रियाङ्गोपाङ्गदेवगतिदेवानुपूर्वीदेवायुर्नरकगतिनरकानुपूर्वीनरकायुर्लक्षणं दुर्भगम् अनादेयद्विकम्-अनादेयाऽयश कीर्तिरूपम् इत्येतासां सप्तदशप्रकृतीनामविरतसम्यग्दृष्टावुदयं प्रतीत्य च्छेदो भवति / तत इमाः सप्तदश प्रकृतयः पूर्वोक्तचतुःशताद् अपनीयन्ते शेषा “सगसीइ देसि" ति सप्ताशीतिः "देसि" ति देशविरते उदये भवति / इदमत्र तात्पर्यम्-द्वितीयकषायोदये हि देशविराम आगमे निषिद्धः; यदागमः बीयकसायाणुदए, अप्पञ्चक्खाणनामधिज्जाणं / . सम्मइंसणलंभ, विरयाविरयं न उ लहंति // (आ० नि० गा० 109) नापि पूर्वप्रतिपन्नदेशविरत्यादेर्जीवस्य तदुदयसम्भवस्तेनोत्तरेषु तदुदयाभावः; मनुजानुपूर्वीतिर्यगानुपूर्योस्तु परभवादिसमयेषु त्रिष्वपान्तरालगतावुदयसम्भवः, स च यथायोगं मनुजतिरश्या वर्षाष्टकाद् उपरिष्टात् सम्भविषु देशविरत्यादिगुणस्थानेषु न सम्भवति, देवत्रिक नारकत्रिकं च देवनारकवेद्यमेव, न च तेषु देशविरत्यादेः सम्भवः, वैक्रियशरीरवैकि. यानोपाननाम्नोस्तु देवनारकेषूदयः, तिर्यग्मनुष्येषु तु प्राचुर्येणाऽविरतसम्यग्दृश्यन्तेषु; यस्तू. चरगुणस्थानेष्वपि केषाश्चिदागमे विष्णुकुमारस्थूलभद्रादीनां वैक्रियद्विकस्योदयः श्रूयते स प्रविरलतरत्वादिना केनापि कारणेन पूर्वाचाने विवक्षित इत्यस्माभिरपि न विवक्षित इति; दुर्भगमनादेयद्विकमित्येतास्तु तिस्रः प्रकृतयो देशविरत्यादिषु गुणप्रत्ययाद् नोदयन्त इत्येता अविरते व्यवच्छिन्ना इति / “तिरिगइआउ" ति तिर्यक्शब्दस्य प्रत्येक योगात् तिर्यग्गतिस्तिर्यगायुः "निउज्जोय" ति नीचैर्गोत्रमुद्योतं च "तिकसाय" ति तृतीयाः कषाया 1 द्वितीयकषायाणामुदये अप्रत्याख्याननामधेयानाम् / सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते // २°त इति / दुर्भ० क० घ० 0 //