________________ 13-15] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / यथति बादरपर्याप्कैकेन्द्रियेपूत्पद्यते तथापि न तस्यातपनामोदयः, तत्रोत्पन्नमात्रस्यासमातशरीर. खैव साखादनस्ववमनात्, समा च शरीरे तत्राऽऽतपनामोदयो भवति, मिथ्यात्वोदयः पुनर्मिथ्यादृष्टावेव, तेनैतासां पञ्चप्रकृतीनां मिथ्यादृष्टावुदयस्यान्तः / तत इदं प्रकृतिपञ्चक पूर्वोक्तसप्तदशशताद् अपनीयते शेषं द्वादशशतं साखादने उदयं प्रतीत्य भवति, नरकानुपूर्व्यपनयने चैकादशशतं भवतीत्येतदेवाह-"सासणे इगारसयं नरयाणुपुषिणुदय" ति साखादन एकादशशतमुदये भवति, नरकानुपूर्व्यनुदयात्, नरकानुपूया उदयो हि नरके वक्रेण गच्छतो जीवस्य भवति, न च साखादनो नरकं गच्छति / यदुक्तं बृहत्कर्मस्तवमाष्ये * नेरयाणुपुधियाए, सासणसम्मम्मि होइ न हु उदओ। नरयम्मि जं न गच्छइ, अवणिज्जइ तेण सा तस्स // (गा० 8) ततो नरकानुपूर्वी मिथ्यादृष्टिव्यवच्छिन्नसूक्ष्मत्रिकातपमिथ्यात्वलक्षणप्रकृतिपञ्चकं च सप्तदशशताद् अपनीयते शेषं सासादने एकादशशतं भवतीति / "अणथावरहगविगल अंतु" ति “अण" ति अनन्तानुबन्धिनश्चत्वारः क्रोधमानमायालोमाः स्थावरनाम "ग" ति एकेन्द्रियजातिः विकलाः–पञ्चेन्द्रियजात्यपेक्षयाऽसम्पूर्णा द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातय इत्यर्थः, इत्येतासां नवानां प्रकृतीनां साखादनेऽन्त उदयमाश्रित्य भवति / इयमत्र भावना-अनन्तानुबन्धिनामुदये हि सम्यक्त्वलाभ एव न भवति / यदाहुः श्रीभद्रबाहुखामिपादाः . पैढमिल्लयाण उदए, नियमा संजोयणाकसायाणं / सम्मइंसणलं , भवसिद्धीया वि न लहंति // (आ० नि० गा० 108) * नापि सम्यग्मिथ्यात्वं कोऽप्यनन्तानुबन्ध्युदये गच्छति, योऽपि पूर्वपतिपन्नसम्यक्त्वोऽ. नन्तानुबन्धिनामुदयं करोति सोऽपि साखादन एव भवतीत्युत्तरेष्वासामुदयाभावः / स्थावरैकेन्द्रियजातिविकलेन्द्रियजातयस्तु यथाखमेकेन्द्रियविकलेन्द्रियवेद्या एव / उत्तरगुणस्थानानि तु संज्ञिाश्चेन्द्रिय एव प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि पञ्चेन्द्रियेष्वेव गच्छतीत्युत्तरेष्वासामुदया. भाव इति // 14 // मीसे सयमणुपुव्वीणुदया मीसोदएण मीसंतो। चउसयमजए सम्माणुपुग्विखेवा बियकसाया // 15 // "मिश्रे' सम्यग्मिध्यादृष्टौ शतमुदये भवति, कथम् ! इत्याह-"अणुपुषीणुदय" ति, इहानुपूर्वाशब्देन तिर्यगानुपूर्वीमनुजानुपूर्वीदेवानुपूर्वीलक्षणा आनुपूर्वीत्रयी गृह्यते तस्या अनुद. यात् मिश्रोदयेन च / अयमत्र भावः-नरकानुपूर्वी तावद् उदयमाश्रित्य साखादने व्यवच्छिन्ना, इह सा न गृह्यते; शेषमानुपूर्वी त्रिकं मिश्रदृष्टेनोंदेति, तस्य मरणाभावात् "ने सम्म १°व्युद° स्व० ग०॥ 2 नरकानुपूर्व्याः सासादनसम्यक्त्वे भवति न घुदयः / नरकं यत्र गच्छति अपनीयते तेन सा तस्य // 3 प्रथमानामुदये नियमात् संयोजनाकषायाणाम् / सम्यग्दर्शनलाभं भवपिदिका अपि न लभन्ते // 4 न सम्यग्मिश्रः करोति कालम् //