________________ 30-34] कर्मविपाकनामा द्वितीयः कर्मग्रन्थः / 95 संघयणअथिरसंठाणछक्क अगुरुलहुचउ अपज्जतं / सायं व असायं वा, परित्तुवंगतिग सुसर नियं // 32 // षट्कशब्दस्य प्रत्येकं योगात् संहननषट्कं-वज्रऋषभनाराचऋषभनाराचनाराचाऽर्धनाराचकीलिकासेवार्तसंहननाख्यम् , अस्थिरषट्कम्-अस्थिराऽशुभदुर्भगदुःखराऽनादेयाऽयशःकीर्तिरूपम्, संस्थानषट्कं-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुञ्जहुण्डसंस्थानाख्यम् , अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छासाख्यम् , अपर्याप्तम् , सातं वाऽसातं वा एकतरवेदनीयं, यदनुदयावस्थम्, “परित्तुवंगतिग" ति त्रिकशब्दस्य प्रत्येकं सम्बन्धात् प्रत्येकत्रिकं प्रत्येकस्थिरशुभाख्यम् , उपाङ्गत्रिकम्-औदारिकवैक्रियाऽऽहारकाङ्गोपाङ्गरूपम् , सुखरम्, "नियं" ति नीचैर्गोत्रमिति // 32 // बिसयरिखओ य चरिमे, तेरस मणुयतसतिग जसाइज्ज / सुभगजिणुच पणिंदिय सायासाएगयरछेओ // 33 // इत्येतासां द्विसप्ततिप्रकृतीनामयोगिकेवलिद्विचरमसमये सत्तामाश्रित्य क्षयो भवति / ततः पूर्वोक्तपञ्चाशीतेरिमा द्विसप्ततिप्रकृतयोऽपनीयन्ते शेषास्त्रयोदश प्रकृतयोऽयोगिचरमसमये क्षीयन्ते / तथा चाह-"बिसयरिखओ" ति स्पष्टम् / 'चः' पुनरर्थे व्यवहितसम्बन्धश्च / चरमसमये पुनः अयोगिकेवलिनस्त्रयोदशप्रकृतीनां क्षयो भवति / "मणुयतसतिग" ति त्रिकशब्दस्य प्रत्येकं योगाद् मनुजत्रिक-मनुजगतिमनुजानुपूर्वीमनुजायुर्लक्षणम् , त्रसत्रिकं-त्रस. बादरपर्याप्ताख्यम् , “जसाइजं" ति यशःकीर्तिनाम आदेयनाम सुभगम् "जिणुच्च" ति जिननाम उच्चैर्गोत्रम् / “पणिदिय" त्ति पञ्चेन्द्रियजातिः सातासातयोरेकतरं तस्य च्छेदः-सत्तामाश्रित्य क्षय इति // 33 // अत्रैव मतान्तरमाह... नरअणुपुब्वि विणा वा, बारस चरिमसमयम्मि जो खविउं / _ पत्तो सिद्धिं देविंदवंदियं नमह तं वीरं // 34 // ___ 'नरानुपूर्वी विना' मनुष्यानुपूर्वीमन्तरेण वाशब्दो मतान्तरसूचको द्वादश प्रकृतीरयोगिकेवलिचरमसमये यः क्षपयित्वा सिद्धि प्राप्तस्तं वीरं नमतेति सण्टकः / अयमत्राभिप्रायःमनुजानुपूर्व्या अयोगिद्विचरमसमये सचाव्यवच्छेदः, उदयाभावात् , उदयवतीनां हि द्वादशानां स्तिबुकसङ्कमाभावात् खानुभावेन दलिकं चरमसयेऽपि दृश्यत इति युक्तस्तासां चरमसमये क्षयः; आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकित्वाद् भवान्तरालगतावेवोदयस्तेन भवस्थस्य नास्ति तदुदयः, तदुदयाभावाच्चायोगिद्विचरमसमये मनुजानुपूर्व्या अपि सत्ताव्यवच्छेदः, तन्मतेऽयोगिकेवलिनो द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये [च] द्वादशानां क्षय इति / ततो यो भगवान् मातापित्रोर्दिवङ्गतयोः सम्पूर्णनिजप्रतिज्ञो भक्तिसम्भारम्राजिष्णुरोचिष्णुलोकान्तिकत्रिदशसद्मजन्मभिः पुष्पमाणवकैरिव "सर्वजगज्जीवहियं भयवं तित्थं पवचेहि" (आव० नि० गा० 215) इत्यादिवचोभिर्निवेदिते निष्क्रमणसमये संवत्सरं यावत् निरन्तरं स्थूरचामीकरधारासारैः प्रावृषेण्यधाराधर इवामुद्रदारिद्यसन्तापप्रसरमवनीमण्डलस्योपशमय्य परस्पर 1 सर्वजगज्जीवहितं भगवन् तीर्थ प्रवर्तय // ..