________________ 5-8] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / मत्रामिपाय:-द्वितीयकषायांस्तावत् तदुदयाभावान्न बध्नाति देशविरतादिः कषाया घनन्तानुबन्धिवर्जा वेद्यमाना एव बध्यन्ते, ""जे वेएइ ते बंधइ" इति वचनात् ; अनन्तानुबन्धिनस्तु चतुर्विशतिसत्कर्माऽनन्तवियोजको मिथ्यात्वं गतो बन्धावलिकामात्रं कालमनुदितान् बध्नाति / यदाहुः सप्ततिकाटीकायां मोहनीयचतुर्विशतिकावसरे श्रीमलयगिरिपादा: इह सम्यग्दृष्टिना सता केनचित् प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव स विश्रान्तो न मिथ्यात्वादिक्षयाय उद्युक्तवान् , तथाविधसामग्र्यभावात् / ततः कालान्तरेण मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति / ततो बन्धावलिका यावत् नावाप्यतिकामति तावत् तेषामुदयं विना बन्ध इति / (पत्र 135-2) नरत्रिकं पुनरेकान्तेन मनुष्यवेद्यम् , औदारिकद्विकं वज्रऋषभनाराचसंहननं च मनुष्यतिर्यगेकान्तवेद्यम् , देशविरतादिषु देवगतिवेद्यमेव बध्नाति नान्यत् , तेनासां दशप्रकृतीनामविरतसम्यग्दृष्टिगुणस्थानेऽन्तः / तत एतत् प्रकृतिदशकं पूर्वोक्तसप्तसप्ततेरपनीयते, ततः "देसे सहि" ति 'देशे' देशविरतगुणस्थाने सप्तषष्टिर्बध्यते "तियकसायंतु" ति तृतीयकषायाणांप्रत्याख्यानावरणक्रोधमानमायालोमानां देशविरतेऽन्तः, तदुत्तरेषु तेषामुदयाभावाद् अनुदितानां चाबन्धात् “जे वेयइ ते बंधइ" इति वचनाद् इति भावः / एतच्च प्रकृतिचतुष्कं पूर्वोकसप्तपष्टेरपनीयते // 6 // ततः तेवट्टि पमत्ते सोग अरइ अथिरदुग अजस अस्सायं। वुच्छिन्न छच्च सत्त व, नेइ सुराउं जया निटं // 7 // "तेवहि पमत्ति" ति त्रिषष्टिः प्रमत्ते बध्यते / शोकः अतिः "अथिरदुग" ति अस्थिरद्विकम्-अस्थिराऽशुभरूपम् "अजस" ति अयशःकीर्तिनाम असातमित्येताः षट् प्रकृतयः प्रमते "च्छिज" ति प्राकृतत्वादादेशस्य व्यवच्छिद्यन्ते-क्षीयन्ते बन्धमाश्रित्येति भावः / यद्वा सप्त वा व्यवच्छिद्यन्ते / कथम् ! इत्याह-"नेइ सुराउं जया निटें" ति यदा कश्चित् प्रमत्रः सन् सुरायुर्वन्द्धमारभते निष्ठां च नयति सुरायुबन्धं समापयतीत्यर्थः तदा पूर्वोक्ताः षट् मुरायुःसहिताः सप्त व्यवच्छिद्यन्त इति // 7 // गुणसहि अप्पमत्ते, सुराउबंधं तु जइ इहागच्छे / अन्नह अट्ठावन्ना, जं आहारगदुगं बंधे // 8 // "गुणसहि" चि एकोनषष्टिरप्रमचे बध्यत इति शेषः / कथम् ! इत्याह-'सुरायुर्वनन्' देवायुर्बन्धं कुर्वन् यदि चेद् 'इह' अप्रमचगुणस्थान आगच्छेत् / इयमत्र भावना-सुरा. युर्बन्धं हि प्रमत्त एवारभते नाऽप्रमचादिः, तस्यातिविशुद्धत्वात् , आयुष्कस्य तु घोलनापरिणामेनैव बन्धनात् , परं सुरायुर्बधन् प्रमते किञ्चित् सावशेष सुरायुर्वन्धेऽप्रमत्तेऽप्यागच्छेत् , अत्र च सावशेष सुरायुर्निष्ठां नयति तत एकोनषष्टिरप्रमत्ते भवति "देवाउयं च इक्कं, नायवं अप्पमत्तम्मि / " इति वचनात् / “अन्नह अट्ठावन्न" ति अन्यथा यदि सुरायुर्बन्धः प्रमचेनारब्धः प्रमत्तेनैव निष्ठां नीतस्ततोऽष्टापञ्चाशदप्रमत्ते भवतीति / 1-1 यान् वेदयते तान् बध्नाति // ३°तुष्टयं ख० ग०॥ 4 देवायुष्कं चैकं ज्ञातव्यमप्रमत्ते॥ क.११