________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा . ननु यदि पूर्वोक्तत्रिषष्टेः शोकाऽरत्यस्थिरद्विकाऽयशोऽसातलक्षणं प्रकृतिषट्कमपनीयते तर्हि सा सप्तपञ्चाशद् भवति, अथ सुरायुःसहितं पूर्वोक्तप्रकृतिषद्कमपनीयते तर्हि षट्पञ्चाशत्, ततः कथमुक्तमेकोनषष्टिरष्टपञ्चाशद्वाऽप्रमते ! इत्याशक्याह-"जं आहारगदुगं बंधे" ति 'यद्' यस्मात् कारणाद् आहारकद्विकं बन्धे भवतीति शेषः / अयमत्राशयः-अप्रमत्तयतिसम्बन्धिना संयमविशेषेणाऽऽहारकद्विकं बध्यते, तच्चेह लभ्यत इति पूर्वापनीतमप्यत्र क्षिप्यते, ततः षट्पञ्चाशद् आहारकद्विकक्षेपेऽष्टापश्चाशद्भवति, सप्तपञ्चाशत् पुनराहारकद्विकक्षेप एकोनषष्टिरिति // 8 // अडवन्न अपुव्वाइमि, निद्ददुगंतो छपन्न पणभागे। सुरदुग पणिदि सुखगइ, तसनव उरलविणु तणुवंगा // 9 // समचउर निमिण जिण वनअगुरुलघुचउ छलंसि तीसंतो। चरमे छवीसयंधो, हासरईकुच्छभयभेओ // 10 // "अडवन्न अपुधाइमि" ति / इह किलाऽपूर्वकरणाद्धायाः सप्त भागाः क्रियन्ते। तत्राऽपूर्वस्यअपूर्वकरणस्यादिमे-प्रथमे सप्तभागेऽष्टापञ्चाशत् पूर्वोक्ता भवति / तत्र चाये सप्तभागे निद्राद्विकस्य-निद्राप्रचलालक्षणस्यान्तो भवति, अत्र बध्यते नोत्तरत्रापि, उत्तरत्र तहन्धाध्यवसाय. स्थानाभावात् , उत्तरेष्वप्ययमेव हेतुरनुसरणीयः / ततः परं षट्पञ्चाशद् भवति / कथम् ! इत्याह-"पणभागि" ति पञ्चानां भागानां समाहारः पञ्चभागं तस्मिन् पञ्चभागे, पञ्चसु भागेस्वित्यर्थः / इदमुक्तं भवति–अपूर्वकरणाद्धायाः सप्तसु भागेषु विवक्षितेषु प्रथमे सप्तभागेsष्टपञ्चाशत् , तत्र च व्यवच्छिन्ननिद्राप्रचलापनयने षट्पञ्चाशत् , सा च द्वितीये सप्तभागे तृतीये सप्तभागे चतुर्थे सप्तभागे पञ्चमे सप्तभागे षष्ठे सप्तभागे भवतीत्यर्थः / तत्र च षष्ठे सप्तभागे आसां त्रिंशत्प्रकृतीनामन्तो भवति इत्याह-"सुरदुग" इत्यादि / सुरद्विकं-सुरगतिसुरानुपूर्वीरूपं "पणिदि" ति पञ्चेन्द्रियजातिः, सुखगतिः-प्रशस्तविहायोगतिः "तसनव" ति असनवर्क-त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुखराऽऽदेयलक्षणं "उरल विणु"ति औदारिकशरीरं विना औदारिकाङ्गोपाङ्गं च विनेत्यर्थः "तणु" ति तनवः-शरीराणि "उवंग" ति उपाङ्गे / इदमुक्तं भवति–वैक्रियशरीरम् आहारकशरीरं तैजसशरीरं कार्मणशरीरं वैक्रियाजोपानम् आहारकाङ्गोपाङ्गं चेति / "समचउर" ति समचतुरस्रसंस्थानं "निमिण" ति निर्माणं "जिण" ति जिननाम-तीर्थकरनामेत्यर्थः “वन्नअगुरुलहुचउ" ति चतुःशब्दस्य प्रत्येकमभिसम्बन्धाद् वर्णचतुष्कं-वर्णगन्धरसस्पर्शरूपम् , अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराधातोच्छासलक्षणमित्येतासां त्रिंशत्प्रकृतीनां “छलंसि" ति षष्ठोंऽश:-भागः षडंशः; मयूरव्यंसकादित्वात् समासः, यथा-तृतीयो भागस्त्रिभाग इति / अत्र डकारस्य लकारो "डो लः". (सि० 8-1-202 ) इति प्राकृतसूत्रेण तस्मिन् षडंशे / ततः पूर्वोक्तषट्पञ्चाशत इमास्त्रिंशत् प्रकृतयोऽपनीयन्ते शेषाः षडिशतिप्रकृतयोऽपूर्वकरणस्य "चरमि" ति चरमे अन्तिमे सप्तमे सप्तभागे बन्धे लभ्यन्त इत्यर्थः / चरमे च सप्तभागे हास्यं च रतिश्च "कुच्छ” ति कुत्सा च-जुगुप्सा भयं च हास्यरतिकुत्साभयानि तेषां भेदः-व्यवच्छेदो हास्यरतिकुत्साभयभेदो भवतीति / एताश्चतस्रः प्रकृतयः पूर्वोक्तषड्डियतेरपनीयन्ते, शेषा द्वाविंशतिः, सा