________________ 'देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा वशादवसेयः / “तिरिथीणदुहगतिगं" ति। त्रिकशब्दः प्रत्येकं सम्बध्यते, 'तिर्यत्रिक तिर्यगतितिर्यगानुपूर्वीतिर्यगायुर्लक्षणं 'स्त्यानर्द्धित्रिक' निद्रानिद्राप्रचलाप्रचलास्त्यानद्धिखरूपं 'दुर्भगत्रिकं' दुर्भगदुःखराऽनादेयखरूपमिति // 4 // अणमज्झागिइसंघयणचउ निउज्जोयकुखगइत्थि त्ति। पणवीसंतो मीसे, चउसयरि दुआउयअबंधा // 5 // - चतुःशब्दस्य प्रत्येकं योजनात् “अण" ति अनन्तानुबन्धिचतुष्कम् अनन्तानुबन्धिको. पमानमायालोभाख्यम्, मध्याः-मध्यमा आद्यन्तवर्जा आकृतयः-संस्थानानि मध्याकृतयः तासां चतुष्कं न्यग्रोधपरिमण्डलसंस्थानं सादिसंस्थानं वामनसंस्थानं कुजसंस्थानमिति, तथा काकाक्षिगोलकन्यायात् मध्यशब्दस्यात्रापि योगः, ततो मध्यानि-मध्यमानि प्रथमान्तिमवर्जानि संहननानि-अस्थिनिचयात्मकानि तेषां चतुकम्-ऋषभनाराचसंहननं नाराचसंहननम् अर्धनाराचसंहननं कीलिकासंहननमिति, "निउ" ति नीचैर्गोत्रम्, उद्योतम् , कु-कुत्सिताऽप्र. शस्ता खगतिः-विहायोगतिः कुखगतिः अप्रशस्तविहायोगतिरित्यर्थः, “त्थि" ति स्त्रीवेद इत्येतासां पञ्चविंशतिपकृतीनां साखादनेऽन्तः, अत्र बध्यन्ते नोचरत्रेत्यर्थः, यतोऽनन्तानुबन्धिप्रत्ययो ह्यासां बन्धः, स चोत्तरत्र नास्तीति / ततश्चैकाधिकशतात् पञ्चविंशत्यपगमे "मीसि" ति 'मिश्रे' सम्यग्मिथ्यादृष्टिगुणस्थाने षट्सप्ततिबन्धे भवति / ततोऽपि “दुआउयअबंध" ति द्वयोमनुष्यायुर्देवायुषोरबन्धो व्यायुरबन्धस्तस्माद् द्यायुरबन्धादिति हेतोश्चतुःसप्ततिर्भवति / इदमुक्तं भवति-इह नारकतिर्यगायुषी यथासङ्ख्यं मिथ्यादृष्टिसाखादनगुणस्थानयोर्व्यवच्छिन्ने, शेषं तुमनुष्यायुर्दैवायुद्धयमवतिष्ठते तदपि मिश्रो न बध्नाति, मिश्रस्य सर्वथाऽऽयुर्बन्धप्रतिषेधात् / उक्तं च ___ सम्मामिच्छद्दिट्ठी, आउयबंधं पि न करेइ / ति। ततः षट्सप्ततेरायुयापगमे चतुःसप्ततिर्भवतीति // 5 // सम्मे सगसयरि जिणाउबंधि वइर नरतिग बियकसाया। - उरलदुगंतो देसे, सत्तट्ठी तिअकसायंतो // 6 // ___ "सम्मि" ति अविरतसम्यग्दृष्टिगुणस्थाने "सगसयरि" ति सप्तसप्ततिप्रकृतीनां बन्धो भवति / कथम् / इति चेद् उच्यते-पूर्वोक्तैव: चतुःसप्ततिः “जिणाउबंधि" चि तीर्थकरनाममनुष्यायुर्देवायुयबन्धे सति सप्तसप्ततिर्भवति / एतदुक्तं भवति-तीर्थकरनाम तावत् सम्यक्त्वप्रत्ययादेवात्र बन्धमायाति, ये च तिर्यग्मनुष्या अविरतसम्यग्दृशस्ते देवायुवन्ति, ये तु नारकदेवास्ते मनुष्या॑युर्वघ्नन्ति, ततोऽत्रेयं प्रकृतित्रयी समधिका लभ्यते, सा च पूर्वोक्तायां 'चतुःसप्ततौ क्षिप्यते जाता सप्तसप्ततिरिति / “वइर" ति वर्षभनाराचसंहननं "नरतिय" ति . नरत्रिक नरगतिनरानुपूर्वीनरायुर्लक्षणं "बियकसाय" ति द्वितीयकषायाः-अप्रत्याख्यानावरणाः क्रोधमानमायालोमाः "उरलदुग" ति औदारिकद्विकम्-औदारिकशरीरौदारिकाङ्गोपाङ्गलक्षणमित्येतासां दशप्रकृतीनामविरतसम्यग्दृष्टावन्तो भवति, एता अत्र बध्यन्ते नोचरत्रेत्यर्थः / अय 1 मध्याकृतिचतुष्कं-न्य ख०॥ 2 क संहननचतुष्कम्-ऋ० क० ख० घ. ऊ० // सिम्यग्मिध्यादृष्टिरायुर्वन्धमपि न करोति // 4 युनिवर्तयन्ति, क०ख०॥