________________ कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / विंशतिः 28 आयुषि चतसः 4 नानि त्रिनवतिः 93 गोत्रे द्वे 2 अन्तराये पञ्च 5 सर्वपिण्डेऽ. टाचत्वारिंशं शतं भवति, तेन च सत्तायामधिकारः / उदयोदीरणयोः पुनरौदारिकादिवन्धनानां पञ्चानामौदारिकादिसङ्घातनानां च पञ्चानां यथाखमौदारिकादिषु पञ्चसु शरीरेष्वन्तर्भावः / वर्णगन्धरसस्पर्शानां यथासङ्घयं पञ्चद्विपञ्चाऽष्ट भेदानां तद्भेदकृतां विंशतिमपनीय तेषामेव चतुर्णामभिन्नानां ग्रहणे षोडशकमिदं बन्धनसङ्घातनसहितमष्टचत्वारिंशशता अपनीयते, शेषेण द्वाविंशेन शतेनाधिकारः / बन्धे तु सम्यग्मिथ्यात्वसम्यक्त्वयोः सङ्कमेणैव निष्पाद्यमानत्वाद् बन्धो न सम्भवतीति तयोविंशतिशताद् अपनीतयोः शेषेण विंशत्युत्तरशतेनाऽधिकार इति प्रकृतिसमुत्कीर्तना कृता / प्रकृत्यर्थः स्वोपज्ञकर्मविपाकटीकायां विस्तरेण निरूपितस्तत एवावधार्य इत्यलं प्रसङ्गेन / प्रकृतं प्रस्तुमः / तत्र बन्धे सामान्येन विशं शतं भवतीति प्रकृतम् / तदेव च विशं शतं 'तीर्थकराहारकद्विकवर्ज' तीर्थकराहारकद्विकरहितं सत् "मिच्छम्मि" ति मीमसेनो भीम इत्यादिवत् पदवाच्यस्यार्थस्य पदैकदेशेनाऽप्यभिधानदर्शनात् मिथ्यात्वे मिथ्यादृष्टिगुणस्थान इत्यर्थः / एवमुत्तरेष्वपि पदवाच्येषु पदैकदेशप्रयोगो द्रष्टव्यः / "सतरसंयं" ति सप्तदशाधिकं शतं सप्तदशशतं बन्धे भवतीति / अयमत्राभिप्रायः-तीर्थकर नाम तावत् सम्यक्त्वगुणनिमित्तमेव बध्यते, आहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं स्वप्रमत्तयतिसम्बन्धिना संयमेनैव / यदुक्तं श्रीशिवशर्मसूरिपादैः शतके सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं / (गा० 44 ) इति / मिथ्यादृष्टिगुणस्थाने एतत्प्रकृतित्रयवर्जनं कृतम् , शेषं पुनः सप्तदशशतं मिथ्यात्वादिभिहेंतुभिर्वध्यत इति मिथ्यादृष्टिगुणस्थाने तद्वन्ध इति // 3 // नन्वेता मिथ्यादृष्टिप्रायोग्याः सप्तदशशतसङ्ख्याः सर्वा अपि प्रकृतय उत्तरगुणस्थानेषु गच्छन्त्युत काश्चिदेव ! इत्याशङ्कयाह... नरयतिग जाइथावरचउ हुंडायवछिवट्ठनपुमिच्छं। . - सोलंतो इगहियसउ, सासणि तिरिथीणदुहगतिगं // 4 // . 'नरकत्रिक' नरकगतिनरकानुपूर्वीनरकायुर्लक्षणम् “जाइथावरचउ" ति चतुःशब्दस्य प्रत्ये. कमभिसम्बन्धाद् ‘जातिचतुष्कम्' एकेन्द्रियजातिद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिखरूपं 'स्थावरचतुष्कं' स्थावरसूक्ष्माऽपर्याप्तसाधारणलक्षणं, हुण्डम् आतपं छेदपृष्ठं "नपु" ति नपुंसकवेदः "मिच्छं" ति मिथ्यात्वमित्येतासां "सोलंतु" ति षोडशानां प्रकृतीनां मिथ्यादृष्टिगुणस्थाने 'तत्र भाव उत्तरत्राभावः' इत्येवंलक्षणोऽन्तो विनाशः क्षयो भेदो व्यवच्छेद उच्छेद इति पर्यायाः / इयमत्र भावना-एता हि षोडश प्रकृतयो मिथ्याष्टिगुणस्थान एव बन्धमायान्ति, मिथ्यात्वप्रत्ययत्वादेतासाम् ; नोचरत्र साखादनादिषु, मिथ्यात्वाभावादेव / यत एताः प्रायो नारकैकेन्द्रियविकलेन्द्रिययोग्यत्वाद् अत्यन्ताऽशुभत्वाच मिथ्याडष्टिरेव बनातीति सप्तदशशतात् पूर्वोक्ताद् एतदपगमे शेषमेकोचरं प्रकृतिशतमेवाविरत्यादिहेतुभिः साखादने बन्धमायाति, अत एवाह-"इगहियसय सासणि" ति एकाधिकशतं साखादने बध्यते / "इगहियसय" इत्यत्र विभक्तिलोपः प्राकृतत्वात् / एवमन्यत्रापि विभक्तिलोपः प्राकृतलक्षण१ सम्यक्लगुणनिमित्तं तीर्थकर संयमेनाहारम् //