________________ 76 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा जस्साउएण तुल्लाई, बंधणेहिं ठिईहि य / भवोवग्गाहिकम्माई, न समुग्घायं स गच्छइ // अगंतूणं समुग्घायं, अणंता केवली जिणा / जरमरण विप्पमुक्का, सिद्धिं वरगई गया // (प्रज्ञा० पत्र 601-1) अत्र "बंधणेहिं"ति बध्यन्त इति बन्धनानि "भुजिपत्यादिभ्यः कर्मोपादाने" (सि० 53-128) इति कर्मण्यनट् , कर्मपरमाणवस्तैः, शेषं सुगमम् / गत्वा वोऽगत्वा वा समुद्धातम् / समुद्धातखरूपं च स्वोपज्ञपडशीतिकटीकायां विस्तरतः प्ररूपितं तत एवावधारणी. यम् / भवोपग्राहिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधार्थमुपक्रमते / तत्र पूर्व बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततो वाग्योगम् , ततः सूक्ष्मकाययोगेन बादरकाययोगम् ; तेनैव सूक्ष्ममनोयोगं सूक्ष्मवाग्योगं च; सूक्ष्मकाययोगं तु सूक्ष्मक्रियमनिवर्तिशुक्लध्यानं. ध्यायन् खावष्टम्भेनैव निरुणद्धि, अन्यस्यावष्टम्भनीयस्य योगान्तरस्य तदाऽसत्त्वात् / तद्ध्यानसामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कुचितदेहत्रिभागवर्तिप्रदेशो भवति / तदनन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् मध्यमप्रतिपत्त्या हखपञ्चाक्षरोगिरणमात्रं कालं शैलेशीकरणं प्रविशति / तत्र शैलेशः-मेरुः तस्येयं स्थिरता-साम्यावस्था शैलेशी, यद्वा सर्वसंवरः शीलं तस्य य ईशः शीलेशः तस्येयं योगनिरोधावस्था शैलेशी, तस्यां करणं-पूर्वविरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्याऽघातिकर्मत्रितयस्याऽ. सङ्ख्येयगुणया श्रेण्या आयुःशेषस्य तु यथाखरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् / तच्चासौ प्रविष्टोऽयोगी स चासौ केवली च अयोगिकेवली / अयं च शैलेशीकरणघरमसमयानन्तरमुच्छि. नचतुर्विधकर्मबन्धनत्वाद् अष्टमृत्तिकालेपलिप्ताऽधोनिममक्रमाऽपनीतमृत्तिकालेपजलतलमर्यादो र्ध्वगामितथाविधाऽलाबुवद् ऊर्ध्व लोकान्ते गच्छति, न परतोऽपि, मत्स्यस्य जलकल्पगत्युपष्टम्भिधर्मास्तिकायाऽभावात् / स चोर्ध्व गच्छन् ऋजुश्रेण्या यावत्वाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्ध्वमप्यवगाहमानो विवक्षितसमयाच्च समयान्तरमसंस्पृशन् गच्छति / - तदुक्तमावश्यकचूर्णी त्तिए जीवो अवगाढो तावइयाए ओगाहणाए उड्ढे उज्जुगं गच्छइ न वंक, बीयं च समयं न फुसइ // (पूर्वार्द्ध पत्र 582) इति // . दुःषमान्धकारनिममजिनप्रवचनप्रदीपप्रतिमाः श्रीजिनभद्रगणिपूज्या अप्याहुः पज्जतमित्तसन्निस्स जतियाई जहन्नजोगिस्स / हुंति मणोदघाई, तबावारो य जम्मतो // (विशेषा० गा० 3059) तदसंखगुणविहीणं, समए समए निरंभमाणो सो। . मणसो सबनिरोह, कुणइ असंखिजसमएहिं // (विशेषा० गा० 3060). 1 समुत्सन क० ख० ग० घ० 0 // 2 यावत्यां जीवोऽवगाढस्तावत्याऽवगाहनया ऊर्ध्वमृजुकं गच्छति न वक्रम् , द्वितीयं च समयं न स्पृशति // 3 पर्याप्तमात्रसंझिनो यावन्ति जघन्ययोगिनः / भवन्ति मनोद्रव्याणि तद्यापारश्च यन्मात्रः॥ तदसङ्ख्यगुणविहीन समये समये निहन्धानः सः / मनसः सर्वनिरोध करोत्यसयेयसमयैः॥