________________ कर्मसवाख्यो द्वितीयः कर्मग्रन्थः। लक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनामोगनिर्वतितयथाप्रवृत्तकरणेन "करणं परिणामोऽत्र" इति वचनाद् अध्यवसायविशेषरूपेणाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासङ्ख्येयमागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति / अत्र चान्तरे जीवस्य कर्मजनितो धनरागद्वेषपरिणामः कर्कशनिबिडचिरपरूढगुपिलवक्रग्रन्थिवद् दुर्भेदोऽभिन्नपूर्वो अन्थिर्भवति / तदुक्तम् तीए वि थोवमित्ते, खविए इत्यंतरम्मि जीवस्स / हवा हु अभिन्नपुरो, गंठी एवं जिणा बिंति // . (धर्मसं० गा० 752, श्राव० प्र० गा० 32) गंठि ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि छ / जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो // (विशेषा० गा० 1195) इति / इमं च अन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति / उक्तं चाऽऽवश्यकटीकायाम् अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्याऽईदादिविभूतिदर्शनतः प्रयोजना. न्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति / / - एतदनन्तरं कश्चिदेव महात्माऽऽसन्नपरमनिवृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परम विशुद्ध्या यथोक्तखरूपस्य अन्थेभेदं विधाय मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणाद् उपर्यतिक्रम्यापूर्वकरणाऽनिवृत्तिकरणलक्षणविशुद्धिजनितसामर्याद् अन्तर्मुहूर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकामावरूपमन्तरकरणं करोति / अत्र यथाप्रवृत्तिकरणाऽपूर्वकरणाऽनिवृत्तिकरणानामयं क्रमः __जो गंठी ता पढम, गंठिं समहच्छओ भवे वीयं / अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे // (विशे० आ० गा० 1203) - "गठिं समइच्छओ" ति प्रन्थि समतिकामतः-मिन्दानस्येति, "सम्मतपुरक्खड" ति सम्यक्त्वं पुरस्कृतं येन तस्मिन् आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः / / एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति / अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा, तस्मादेवान्तरकरणाद् उपरितनी शेषा द्वितीया / स्थापना तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवापशमिकसम्यक्त्वमामोति, मिथ्यात्वदलिकवेदनाऽभावात् / यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति / तथा च सति तस्यौपशमिकसम्यक्त्वलामः / उक्तं च 1 तस्या अपि खोकमात्रे क्षपित अत्रान्तरे जीवस्य / भवति हि अमित्रपूर्वो प्रन्धिरेवं जिना युवन्ति // प्रन्थिरिति सुदुर्भेदः कर्कशषनरूढगूढप्रन्थिरिव / जीवस्य कर्मजनितो धनरागद्वेषपरिणामः // २र्थोऽन्त क०ग०॥ 3 यावद् प्रन्थिः तावत् प्रथम प्रन्थि समतिकामतो भवेद्वितीयम् / अनिवृत्तिकरणं पुनः सम्यक्खपुरस्कृते जीवे // 4 अपुग्वं तु विशेषावश्यकभाष्ये।