________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा ननु यदि मिथ्यादृष्टिः ततः कथं तस्य गुणस्थानसम्भवः ! गुणा हि ज्ञानादिरूपाः, तत् कर्ष ते दृष्टौ विपर्यस्तायां भवेयुः ! इति, उच्यते-इह यद्यपि सर्वथाऽतिप्रबलमिथ्यात्वमोहनी. योदयाद् अर्हत्मणीतजीवाजीवादिवस्तुप्रतिपचिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिद् मनुष्यपश्चादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपचिरविपर्यस्ताऽपि भवति, अन्यथाऽजीवत्वप्रसङ्गात् / यदागमः संघजीवाणं पि य णं अक्खरस्स अणंतभागो निचुग्याडिओ चिट्ठइ, जइ पुण सो वि आवरिजिज्जा ता णं जीवो अजीवचणं पाविज्जा / (नन्दीपत्र 195-2) इति / ___ तथाहि-समुन्नताऽतिबहलजीमूतपटलेन दिनकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः सम्पद्यते, प्रतिप्राणिप्रसिद्धदिनरजनिविभागाऽभावप्रसङ्गात् / उक्तं च सुट्ट वि मेहसमुदए, होइ पहा चंदसूराणं / (नन्दीपत्र०१९५-२) इति / एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः। __ यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव ! मनुष्यपश्चादिपतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्त्य पेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, यतो भगवदहप्रणीतं सकलमपि द्वादशानार्थमभिरोचयमानोऽपि यदि तद्गदितमेकमप्यक्षरं न रोय. यति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशात् / तदुक्तम् __ पैयमक्सर पि इकं, पि जो न रोएइ सुत्तनिद्दिष्ठं / . सेसं रोयंतो वि हु, मिच्छट्टिी जमालि व // (बृहत्सं० गा० 167) इति / किं पुनर्भगवदर्हदभिहितसकलजीवाजीवादिवस्तुतत्त्वप्रतिपत्तिविकलः / इति 1 / / __ आयम्-औपशमिकसम्यक्त्वलाभलक्षणं सादयति-अपनयतीत्यायसादनम् , अनन्तानुबन्धिकषायवेदनम् / अत्र पृषोदरादित्वाद् यशब्दलोपः, कृढ़हुलमिति कर्तर्यनद्, सति पसिन् परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कर्षतः षड्भिरावलिकाभिरपगच्छतीति / ततः सह आसादनेन वर्तत इति सासादनः, सम्यग्-अविपर्यस्ता दृष्टिः-जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, सासादनश्चासौ सम्य. ग्दृष्टिश्च सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् / साखादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः, तत्र सह सम्यक्त्वलक्षणरसाखादनेन वर्तत इति साखादनः। यथा हि मुक्तक्षीरानविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरानरसमाखादयति, तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्रमंस्तद्रसमाखादयति / ततः स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं साखादनसम्यग्दृष्टिगुणस्थानम् / एतचैवं भवति-बह गम्मीरापारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्ताननन्तदुःख सर्वजीवानामपि च भक्षरस्यानन्तभागो नित्योद्धोटितस्तिष्ठति, यदि पुनः सोऽपि भाब्रियेत ततो जीवो. जीवलं प्राप्नुयात् // 2 मुष्ठपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः॥ 3 पदमक्षरमप्येकमपि योन रोचयति सूत्रनिर्दिष्टम् / शेषं रोचयमानोऽपि हि मिथ्यारष्टिजमालिरिव॥