________________ 2-2] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / नाथस्य परार्थसम्पदमाह / वीरश्चासौ जिनश्च कषायादिप्रत्यर्थिसार्थजयाद् वीरजिनस्तं वीरजिनम् / 'यथा' येन प्रकारेण अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीससयं / तित्थयराहारगदुगवजं मिच्छम्मि सतरसयं // (गा० 3) इत्यादिवक्ष्यमाणेषु 'गुणस्थानेषु' परमपदप्रासादशिखरारोहणसोपानकल्पेषु व्याख्यास्यमानखरूपेषु मिथ्यादृष्ट्यादिषु सकलानि-समस्तानि मतिज्ञानावरणप्रभृत्युत्तरप्रकृतिकदम्बकसहितानि कर्माणि-ज्ञानावरणीयादिमूलप्रकृतिरूपाण्यष्टौ कर्माणि च खोपज्ञकर्मविपाके विस्तरेण व्याख्यातानि / कथम्भूतानि ! "बंधुदओदीरणयासत्तापत्चाणि" ति / तत्र मिथ्यात्वादिभिर्बन्ध. हेतुमिरञ्जनचूर्णपूर्णसमुद्कवद् निरन्तर पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीरवद् वययःपिण्डवद्वाऽन्योऽन्यानुगमाभेदात्मकः सम्बन्धो बन्धः 1, तेषां च यथाख. स्थितिबद्धानां कर्मपुद्गलानामपवर्तनादिकरणविशेषकृते खाभाविके वा स्थित्यपचये सति उदयसमयप्राप्तानां विपाकवेदनमुदयः 2, तेषामेव कर्मपुद्गलानामकालप्राप्तानां जीवसामर्थ्यविशेषाद् उदयावलिकायां प्रवेशनमुदीरणा 3, तेषामेव कर्मपुद्गलानां बन्धसङ्कमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमणकृतखरूपप्रच्युत्यभावे सद्भावः सत्ता 4, बन्धश्च उदयश्च उदीरणा च सचा च बन्धोदयोदीरणासत्तास्ताः प्राप्तानि-गतानि / सूत्रे च "उदीरणया" इत्यत्र कप्र. त्ययः खार्थिकः, 'क्षपितानि' निर्मूलोच्छेदेनाभावत्वमापादितानीति // 1 // गुणस्थानेषु कर्माणि क्षपितानीत्युक्तम् / ततो गुणस्थानान्येव तावत् खरूपतो निर्दिशति मिच्छे 1 सासण 2 मीसे 3, ___ अविरय 4 देसे 5 पमत्त 6 अपमत्ते 7 / नियहि 8 अनियहि 9 सुहमु 10. घसम 11 खीण 12 सजोगि 13 अजोगि 14 गुणाः॥२॥ - "गुण" ति गुणस्थानानि ततः "सूचनात् सूत्रम्" इति न्यायात् पदैकदेशेऽपि पदसमुदायोपचाराद् वा इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः / तद्यथा-मिथ्यादृष्टिगुणस्थानं 1 साखादनसम्यग्दृष्टिगुणस्थानं 2 सम्यग्मिथ्यादृष्टिगुणस्थानम् 3 अविरतसम्यग्दृष्टिगुणस्थानं 4 देशविरतिगुणस्थानं 5 प्रमत्तसंयतगुणस्थानम् 6 अप्रमत्तसंयतगुणस्थानम् 7 अपूर्वकरणगुणस्थानम् 8 अनिवृत्तिबादरसम्परायगुणस्थानं 9 सूक्ष्मसम्परायगुणस्थानम् 10 उपशान्तकषायवीतरागच्छद्मस्थगुणस्थानं 11 क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं 12 सयोगिकेवलिगुणस्थानम् 13 अयोगिकेवलिगुणस्थानम् 14 इति / ___ तत्र गुणाः-ज्ञानदर्शनचारित्ररूपा जीवखभावविशेषाः, स्थानम्-पुनरत्र तेषां शुद्ध्यविशुद्धिप्रकर्षापकर्षकृतः खरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा, गुणानां स्थानं गुणस्थानम् , मिथ्या-विपर्यस्ता दृष्टिः-अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः, तस्य गुणस्थानं-ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुद्ध्यापकर्षकृतः खरूपविशेषो मिथ्यादृष्टिगुणस्थानम् / /