________________ // अर्हम् // पूज्यश्रीदेवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः। ॥नमः श्रीप्रवचनाय // बन्धोदयोदीरणसत्पदस्थ, निःशेषकर्मारिवलं निहत्य / यः सिद्धिसाम्राज्यमलश्चकार, श्रिये स वः श्रीजिनवीरनाथः // नत्वा गुरुपदकमलं, गुरूपदेशाद्यथाश्रुतं किञ्चित् / कर्मस्तक्स्य विवृति, विदधे खपरोपकाराय // तत्राऽऽदावेव मङ्गलार्थमभीष्टदेवतास्तुतिमाह तह थुणिमो वीरजिणं, जह गुणठाणेसु सयलकम्माई। बंधुदओदीरणयासत्तापत्ताणि खवियाणि // 1 // 'तथा' तेन प्रकारेण 'स्तुमः' असाधारणसद्भूतसकलकर्मनिर्मूलक्षपणलक्षणगुणोत्कीर्तनेन स्तवनगोचरीकुर्मः, कम् ! 'वीरजिनं' तत्र विशेषेण-अपुनर्भावेन ईते-ईरिक् गतिकम्पनयोः' इति वचनाद् याति शिवं, कम्पयति-आस्फोटयति अपनयति कर्म वेति वीरः, यदि वा 'शूर वीरणि विक्रान्तौ' वीरयति स्म-कषायोपसर्गपरीषहादिशत्रुगणमभिभवति स्म वीरः, उभयत्र लिहादित्वाद् अच् , यद्वा ईरणमीरः, “भावाकत्रोंः” (सि० 5-3-18) इति घञ्, ततश्च विशिष्ट ईरः-गमनं 'सर्वे गत्यर्था ज्ञानार्थाः' इति वचनाद् ज्ञानं यस्य स वीर इति, अनेन व्युत्पत्तित्रयेण भगवतश्वरमजिनेश्वरस्य स्वार्थसम्पदमाह / अथवा विशिष्टा-सकलभुवनाद्भुता यका खर्गापवर्गादिका ईः-लक्ष्मीस्तां राति-भव्येभ्यः प्रयच्छति 'राक् दाने' इति वचनाद् वीरः, "आतो डोऽहावामः" (सि०५-१-७६) इति डप्रत्ययः, राति च भगवान् सुरासुरनरोरगतिर्यक्साधारण्या वाण्या निःश्रेयसाभ्युदयसाधनोपायोपदेशेन भव्यानां भुवनाद्भुतां श्रियम् , तथा चोक्तम् अरहंता भगवंतो, अहियं च हियं च न वि इहं किंचि / वारंति कारवंति य, घेत्तूण जणं बला हत्थे / / ( उप० मा० गा० 448) उवएसं पुण तं देंति जेण चरिएण कित्तिनिलयाणं / देवाण वि हुंति पहू, किमंग पुण मणुयमित्राणं? // (उप० मा० 449) इति / ___ इत्यनया व्युत्पत्त्या च प्रसिद्धसिद्धार्थपार्थिवविपुलकुलविमलनभस्तलनिशीथिनीनाथस्य जिन 1 अर्हन्तो भगवन्तोऽहितं च हितं च नापि इह किञ्चित् / वारयन्ति कारयन्ति च गृहीला जनं बलाद् हस्ते // उपदेशं पुनस्त्रं ददति येन चरितेन कीर्तिनिलयानाम् / देवानामपि भवन्ति प्रभवः किमङ्ग पुनर्मनुजमात्राणाम् //