________________ 222 CATUHSATAKA [346 अन्ये तु व्याचक्षते। एकत्वान्यत्वादिव क्रमेण भावानां प्रतिषेधोऽथवा क्रमान्तरेणापीति चेत् / उच्यते सदसत् सदसच्चेति नोभय चेति च क्रमः / / एष प्रयोज्यो विवद्भिरेकत्वादिषु नित्यशः // सच्च। अमञ्च। सदपि च सतोऽभावोऽसञ्च। न सन्न चासत् / इत्ययक्रमो विद्भिरेकत्वादिषु चतुर्ष पक्षेषु नित्यशः प्रयोज्यः / तत्र सदित्यात्मेत्यर्थः / असदित्यनात्मेत्यर्थः। सच्च सतोऽभावोऽसच्चेत्यात्माप्यात्मनोऽभावोऽनात्मापीत्यर्थः / न सत्र चासदिति नात्मापि न चानात्मापोत्यर्थः। एकत्वादिष्वित्ये कत्वमन्यत्वमुभय नोभयमिति। तत्र योबहना वैकत्वमनकत्वमुभयमनुभयं वा भवति / तत्र येषां पटशुक्लयोरकत्वमिति पक्षस्तेषां सदित्यय क्रमो विषयतः काललक्षणतश्च प्रयोज्यः। तत्र तावहिषयतः। यदि पटशुक्लयोरेकत्वं यत्र यत्र शक्लस्तत्र तत्र पटेनापि भवितव्यम् / यत्र यत्र च पटस्तत्र तत्र शुक्ल नापि भवितव्यम्। अथ यत्र यत्र शुक्लो न तत्र तत्र पटो न च यत्र यत्र पटस्तत्व तत्र शुक्लस्तदा पटशुक्लयोरकत्वमिति यदिष्यते न तदुपपद्यते। विषयभेदात् / कालादपि। तत्र कालस्त्रिविधः। अतीतोऽनागतो वर्तमानच। तत्रातोतेऽतोतावस्थायामेव पूर्वजातः शुक्लो दृष्टः / यदि पटशुल्लायोरेकत्वं तदा यदि शक्तः पूर्वजातः पटेनापि पूर्वजातेन भवितव्यम्। अथ पटः पश्चाज्जातः शुक्ल नापि पश्चाज्जातन भवितव्यम्। यदि शुक्ल पूर्व जाते वर्तमानः पट: पश्चाज्जायते यत् पूर्वजातं यच्च पश्चाज्जातं न तयोरेकत्वम् / उत्पत्तिक्रमभेदात् / अन्यच्च यदि पटशुक्लयोरेकत्वं तदा शुक्ल पटो विलौयेत। पटेऽपि च शुक्लो विलीयेत / यदा शुलः शुक्ल विलीयेत न पट: पटेऽपि पट एव विलोयेत न शक्लस्तन पटशक्लयोरेकत्वमिति यदिष्यते तन्न भवति। विलयाविलययोर्भेदात्। अन्यच्च / शुक्ल इत्यु तो शुक्ल इत्येवाह न घट इति। पट इत्य के च पट इत्येवाह न शुक्ल इति / यस्माच्छुक्ल इत्यु तो शक्ल इत्ये वाह पट इत्यु तोऽपि च पटमेवाह न शुलमिति तस्मान्न तयोरकत्वम्। उक्तानुक्तयोर्भेदात् / लक्ष्यलक्षणयोर्भेदाच्च। इह लक्षणं शुक्लरूपम् / लक्ष्यः पटः। यदि तयोरकत्वं तदा यदि शुक्लो लक्षणं पटोऽपि लक्षणमेव स्यात् / यदि पटो न लक्षणं शुक्लोऽपि न लक्षणं स्यात् / यदि शुक्ल एव लक्षणं न पट: पट एव च लक्ष्यो न शुक्लस्तत्र पटशुक्लयोरेकत्वमिति यदिष्यते तन्न भवति। लक्ष्यलक्षणयोर्भेदात् /