________________ 347] . CHAPTER XIV 223 यथा पटशुक्लयोरकत्वं प्रतिषिच तथा सर्वेषां भावानाभेकत्वप्रतिषेधो विस्तरशोऽभिधेयः / प्रवाह। पटशुक्लयोरेकत्वप्रतिषेध उक्ते ऽन्यत्वं वक्तव्यम्। उच्यते / यदि पटशुक्लयोरन्यत्वं तदा गुणो द्रव्याधेय इति शुल्लो घटो न भवेत्। यथा यदि यज्ञदत्तो देवदत्तस्य भ्राता न भवेद्देवदत्तोऽपि यज्ञदत्तस्य साता न भवेत् / एवं पटोऽपि शुक्लो न भवेत् / यदि शुक्लयोगात् पटः शुक्ल इतोष्यते। तत्राप्युच्यते। यदि शुक्लयोगात् पटः शुक्लः स्यात् किमयं पट: शुक्लयोगाच्छ क्ललक्षण प्राप्नोत्यथ न प्राप्नोति। यदि तावच्छ ललक्षणं प्राप्नोति। पटस्तेन शुक्ल एव स्यात्पटत्वं चास्य होयेत / अथ शुक्ललक्षणं न प्राप्नोति। शुक्ललक्षणापास्या योगसत्त्वेऽपि पटः शुल्लो न भवति। तत्र शुक्लयोगेन पटः शुक्ल इति यदिष्यते तन्न भवति। यथा पट: शुक्लो न भवति तथा ये पटस्य विशेषा नीलः पोतो रतो रक्तपीत: कपिल: कपीतवर्णः कृष्मो दी| ह्रखः कोमल: कठिन इत्यादयस्तेभ्योऽपि पटोऽन्य एवेति सर्वसम्भवाभावः। सर्वसम्भवाभावे च पट एव न भवति / यथा पटो न भवति तथा सर्वेऽपि भावाः / गुणविशेषा हि तत्तेभ्यो भिन्ना एवेति सर्वसम्भवाभावः। अलाह। यदि सदसतोरकत्वमन्यत्वं च प्रतिषेध्यमुच्यते उभयपक्षः सम्यग्वक्तव्यः / उच्यते। यस्य पटशुक्लयोरकत्वमन्यत्वं चेति पक्षस्तस्यैकत्वमन्यत्वं च पूर्ववचनैरेव प्रतिषेध्यत्वेन व्याख्यातम् / __ यस्य पक्षो नोभयं तस्यापि प्रतिषेधः संक्षिप्योच्यते। यदि पटशुक्लयो. नकत्वं न चान्यत्वमुभयलक्षणाप्राप्ते: शुल्लोऽपि शुक्ल एव न भवत्य शुक्लोऽपि न भवति। पटोऽपि पट एव न भवत्यपटोऽपि न भवति / तस्मादुभयलक्षणाप्राप्तस्य शुक्लस्य किमिति शुक्ल इत्यभिधानं न लषण इति / यस्मात्तस्य शुक्ल इत्यभिधानं न कृष्ण इति तस्माच्छल एव। लक्षणहयाप्राप्तस्य च तस्य पटस्य किमिति पट इत्यभिधानं न घट इति। यस्मात्तस्य पटस्य पट इत्ये वाभिधानं न घट इति तस्मात्पट एव / तथा च शक्ल एव एट एव च सिध्यति। अवश्यं च तयोरेकवेनान्यत्वेन वा भवितव्यम। एकत्वे सति पुनरप्यकत्वप्रतिषेधक्रम एवाभिधयोऽन्यत्वे त्वन्यत्वप्रतिषेधक्रमः। तथा सर्वस्यापि भावस्य प्रतिषेधक्रमो विस्तरशोऽभिधेय इति // 21 //