________________ नयचक्रम्। [भेदाभेदयोलोकपक्षापत्तिः / कथञ्चिद्रहणात्तथाग्रहणादन्यथाग्रहणाच्च किश्चित्त्वादेव / न सर्व सर्वात्मकं / सर्वासर्वत्वसिद्धिश्च विभागनिर्देशात् किञ्चिदिति / एवं तेन प्रकारेण तथेति सामान्यं विशेषस्तयोश्च कश्चिद्धर्मः प्रकारव्यपदेशभागेषितव्यः। तेषु त्रिष्वपि सिद्धेषु यस्मात्तथेति घटते / एवमन्यथेत्यप्ययमन्यस्मादन्योन्यश्वासादन्य इति सर्वासर्वत्वसिद्धेलॊकपक्षापत्तिः। एवं विशेषकान्ते देशकालकृतात्यन्तभेदनिरूपाख्यशून्यत्वेषु किं तत्स्यात् किञ्चिदिति विभज्यान्यस्मादवस्थितादनवस्थितमसद्वान्यदिति चोघेत विलक्षणमिति / एवं तथान्यथेति च न घटेते / एवमुभयानेकत्वैकान्ते पूर्ववद्रव्यादीनामितरेतरानात्मकत्वात् सामान्यविशेषयोः कार्यकारणयोर्वा निर्मूलत्वादिभ्यो वा हेतुभ्योऽसत्त्वाद्वस्तुनः किश्चित्तथान्यथेत्यनुपपत्ते लॊकपक्षापत्तिः / तया च सह सर्वसर्वात्मकत्वादिशास्त्राभ्युपगमो विरुध्यते / एवं तावत् प्रतिज्ञा दृष्टा / प्रतिज्ञावद्धेतुदृष्टान्तावपि दृष्टावेव तदसाध्यत्वात् / उन्मत्त इति च दृष्टान्तो लोकपक्षपातादृते न सिद्ध्यति / उत्कृष्टो माद उन्माद इति, मदान्तरापेक्षो विमदत्वापेक्षो वा निर्देशः / स च लौकिक एव तमभ्युपगम्य, तस्मात्-लोकाभ्युपगमात् लोकप्रमाणीकृत एव / किश्चिदकिञ्चित् / तथा अन्यथेत्यादि परस्परविलक्षणात्, तनिराचिकीर्षव एवोन्मत्ततरा इति / एवं तावद्वाक्यविषयो दोषः / ___ इदानीमेकपदविषय उच्यते / भेदवदभेदपदार्थोपादानाच न तथेति / पुनर्नवोऽभ्युपगमविरोधः। भेदोऽस्यास्तीति भेदवान् / नास्य भेद इत्यभेदः / भेदवांश्चाभेदश्च स एवेति भेदवदभेदः / कोऽसौ पदार्थः ? वृक्ष इत्यादिः। वार्थद्रव्यलिङ्गसंख्याकर्मादिकारकरूपः। यदुक्तं-'क्रमयोगपद्यचिन्तायां खार्थमभिधाय शब्दो निरपेक्षो द्रव्यम्' आह-समवेतां समवेतस्य तु वचने लिङ्गसंख्यां विभक्तिं चाभिधाय तान् विशेषानपेक्षमाणस्तु कुंतस्तमात्मानं प्रियकुत्सनादिषु तथा प्रवर्ततेऽसौ विभक्यन्त इति व्याकरणे सर्वतत्रसिद्धान्ते तत्र खार्थ इति जातिराकारोच्येत / स्व एवार्थः स्वार्थ इति सोऽन्यापेक्षत्वादन्येन विना नान्य इति स्यादतो द्रव्यादिसिद्धेर्मेदवान् पदार्थः / तेषामेव च स्वार्थादीनामत्यन्तभेदेऽन्येनान्यात्मकत्वात् खपुष्पवदभावः स्यात् / देशकालाद्यभेदोपलब्धेश्चाभेदसिद्धेरभिन्नः पदार्थस्तस्माद्भेदवदभेदपदार्थ उपात्तः पदं प्रयुञ्जानेन शास्त्रविदा स्वार्थमात्रवादिनापि / तथा द्रव्ये लिङ्गे सङ्ख्यायां कारके कुत्सादौ पदार्थे च योज्यम् / क्रमेण युगपद्वाच्यं तमभ्युपगम्याविशेषवादिनो विशेषवादिन उभयानेकत्ववादिनो वा न तथेति, तमेव पुनर्बुवते-न नाभ्युपगमवि 1 स चान्यः। 2 °एवान्यतरा। 3 °कृत्व। 4 °चा।