________________ -नित्यवृत्तित्वम् ] न्यायागमानुसारिण्यलङ्कृतम् / शास्त्रेण च तथा तद्वस्तु, न तु यथा लोकेन गृह्यते तथेति भवतोऽभिप्रायः। तत्र प्रतिज्ञातावितथोक्ता गृह्यमाणा / अविशेषादेर्न तथा स्यात् / अविशेषकान्तवादे तावत्सर्वस्य सर्वात्मकत्वात् नित्यः शब्द इति प्रतिज्ञा, यथा श्रोत्रेण गृह्यते न तथा भवितुमर्हति / किं कारणं? / तत्रादिग्राह्यरूपाद्यात्मिकापि सेति कृत्वा / एवं विशेषकान्तवादेऽपि अनित्यः शब्द इति प्रतिज्ञा, अकारनिकारादिवर्णविज्ञानानां देशकालकृतात्यन्तनानात्वक्षणिकत्वशून्यत्वनिरूपाख्यत्वात्परस्परापेक्षाभावे सर्वभावाभावे च यथा गृह्यते न तथा स्यात् / एवमुभयानेकत्वैकान्ते पूर्ववदन्यतरग्राह्यस्येतरपक्षनिरपेक्षस्याभावात् / ततश्चांशे प्रत्यक्षविरोधः / ततश्चेति तस्मादेव हेतोलोके गृह्यमाणस्य विपरीतत्वादविशेषकान्ते तावत्प्रत्यक्षविरोधः / अंशे-भागे तस्यैव वस्तुनः अविशेषकान्तवादिपरिकल्पितस्त्रप्रत्यक्षोपलभ्यस्य विशेषत्वात्प्रत्यक्षविरोधः / अंशे स्ववचनविरोधः / तत्काले प्रतिपादनशब्दविशेषत्वेष्टेः / अंशेऽभ्युपगमविरोधः / स्वशास्त्रे सर्वत्र प्रसिद्धेन पूर्वकालाभ्युपगतेन सर्वात्मकत्वेनाधुनातनधर्मधर्मिविशेषस्य विरोधात् / स्वोक्तविपर्ययरूपाभ्युपगमादित्यन्ते कारणमुक्तं / प्रत्यक्षस्ववचनाभ्युपगमानभ्युपगमाविशेषात् / एवं विशेषकान्ते श्रोत्रेन्द्रियग्राह्यस्य शब्दस्य तावन्मात्रकालावस्थास्तु पूर्वोत्तरवर्णसम्बन्धतद्बुद्ध्यवस्थानसोपाख्यत्वप्रत्यक्षत्वात्प्रत्यक्षविरोधः / तथैव च तस्योपपत्तेः। स्ववचनेनानित्यशब्दप्रतिज्ञा विरुध्यतेऽत एव चाभ्युपगमेन विरोधः। पूर्ववत्स एव हेतुरत्रापि / तथोभयानेकत्वैकान्ते प्रागभिहितसाधनान्येवात्र व्यापार्याणि / अद्रव्यत्वाद्वन्ध्यापुत्रवन्नानित्यत्वं, न शब्दोऽस्तीत्यादिस्वरूपाभावः / अचाक्षुषाप्रत्यक्षगुणस्य सतोपसर्गः कर्मभिः साधयं सतो लिङ्गाभावात्कार्यत्वात्कारणतो विकारादित्यादिशास्त्रविहितहेतुव्याख्यातार्थप्रतिपादनकाले तत्प्रयोगात् प्रत्यक्षीकरणाचानित्यत्वशब्दत्वाद्यभावात्प्रत्यक्षविरोधः / स्ववचनस्य तत्कालस्य तथावस्थानाभ्युपगमात्स्वक्चनविरोधः / पूर्वाभ्युपगमेन च इदानींतनस्य विरोधादभ्युपगमविरोधः पूर्ववत्वोक्तविपर्ययरूपाभ्युपगमादिति सर्वत्र हेतुरिति / अथ तथा। अथैते दोषा मा भूवन वितथत्वाश्रया इति / तथैवेत्यभ्युपगम्यते परैस्ततो न तर्हि लोकगृहीतमन्यथेत्यापन्न, लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्थ इति / किञ्चित्तथा किंचिदन्यथोन्मत्तप्रतिपत्तिवदिति चेत् , स्यान्मतं-किञ्चिल्लोकेन गृहीतं तथैव भवति प्रतिज्ञादि किञ्चिदन्यथा घटादि लोकस्यापरीक्षकत्वात् / परीक्षकाश्च पदवाक्यप्रमाणविदः / दृष्टान्त उन्मत्तप्रतिपत्तिः / यथोन्मत्तोऽपरीक्षकः पदवाक्यप्रमाणानभिज्ञः किञ्चित्तथा प्रतिपद्यते किञ्चिदन्यथा, तत्प्रतिपत्तिश्चाप्रमाणम् / सदसतोरविशेषाद्यदृच्छोपलब्धेश्च / तद्वल्लोकप्रतिपत्तिरपीति / अत्राच्यतेएवं तर्हि साक्षाल्लोकपक्षाभ्युपगमविरोधः / साक्षादिति प्रत्यक्षत एव