________________ नयचक्रम् / [प्रधानस्यशास्त्रप्रमाणीकरणे प्रत्यक्षबलाल्लोकस्य प्रवृत्तत्वात् / शास्त्रत्वादेव लोकत्वमिति चेत , स्थान्मतम्- ननूक्तं 'शास्त्रकाराः स्वदृष्टार्थप्रतिपादनकुशला बुद्धिसंवादार्थं दृष्टान्तप्रमाणैस्तकैः शास्त्रार्थान् प्रतिपादयन्ति, न पुनः शास्त्रार्था लोकं प्रत्यक्षीकर्तुं शक्यास्तत एव तदर्थवाचीनि शास्त्राण्यलोक' इति / तच न, लोकाश्रयत्वात्तेषां शास्त्राणां / तानि हि शास्त्राणि / यस्मादर्थे हिशब्दो, यस्मात्तानि सामान्यविशेषकारणकार्यमात्राणां सामान्यमात्रस्य यदग्नेः कारणमात्रस्य स्नेहशौक्ल्यादेदृष्टस्य विशेषमात्रस्य चार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्राप्यारोपेण प्रणीतानि क्षीरस्येव स्नेहादिसामान्यस्य कारणाख्यस्य संस्थानमात्रं दृष्ट्वा दध्याद्यवस्थाविशेषमन्तरेण तस्य सामान्यस्य स्थित्यभावमपश्यद्भिर्यथेदं संस्थानमात्रं न चायं न विशेषस्तथान्येऽपि घटपटादयोस्तेि गुणप्रधानसंस्थानमात्रमिति सर्वत्राध्यारोप्य तदर्थानि शास्त्राणि प्रणीतानि / कारणमेव सामान्यमेव सर्वत्रेत्येतस्यार्थस्य प्रतिपादनं प्रसङ्गेन / तथार्चिषां प्रतिक्षणोत्पत्तिविनाशपार्थस्यानि दृष्ट्वा रूपरसस्पर्शगन्धमूर्त्यादिसामान्यावस्थानमन्तरेण तदसंभवमपश्यद्भिर्यथेदं विशेषमात्रं न सामान्यं / न कारणं / तथान्येऽपि महीमहीध्रसरित्समुद्रद्वीपगगनतारानक्षत्रग्रहगणादयो भावा इति / सर्वत्राध्यारोप्य तदर्थानि शास्त्राणि तत्प्रतिपादनप्रसङ्गवचनरचनाविभङ्गतरङ्गापारतोयसमुद्रीभूतानि प्रापितानि / अन्यत्र दृष्टस्याध्यारोप्य घटत्ववदलोकिकत्वमिति चेत्, स्यान्मतं-लौकिकमतीन्द्रियग्राह्यमुच्यते घटरूपादिवत् / यदत्र घटे घटतत्त्वं द्विकुक्ष्याद्याकारविशेषस्तदन्यत्र घटान्तरेऽध्यारोप्यते / तच नास्त्यध्यारोपायेव, लोकसंवादात्तु प्रतिपादनार्थोऽध्यारोपः / एवं शास्त्राणामप्यध्यारोपादेवालौकिकत्वमिति नास्ति प्रतिज्ञातव्याघातदोषोऽयं भवान्मन्यते लोकत्वापत्तेरिति / अत्र क्रमः-तथा न व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात् , तथा तेन प्रकारेण, तथा सत्यं भवति तदलौकिकमविशुद्धत्वान्मृगतृष्णिकादिज्ञानवद्विशुद्धलोकस्य न पुनरुपपद्यते / मृगतृष्णिकावदेव तस्य व्यामोहस्साप्रामाण्यप्रसङ्गात् / ऊपरभूप्रदेशे ग्रैष्मोष्मसन्तप्तचक्षुषो रविकिरणाः पतिताः प्रत्युत्पतन्तो दूराद् व्यामोहहेतवस्तोयवदाभासंते तस्माच्छास्त्रविज्ञानस्य मृगतृष्णिकाविज्ञानवदप्रामाण्यप्रसङ्गादसमंजसोदाहम् / किं चान्यत्-तथा च तत्र प्रतिज्ञादीनामप्यनुपपत्तिः। केवलं शास्त्रविज्ञानाप्रामाण्यमेव / किं तर्हि ? तेन प्रकारेण तथा च / एवं कृत्वा तत्र सति तस्मिन्नलौकिके मृगतृष्णिकावत्प्रतिज्ञादीनामप्यवयवानामनुपपत्तिः / कथं ? यदि तथा लोकेन गृह्यते न तथा वस्तु / यदीति पराभ्युपगमं दर्शयति-यदि प्रतिपादनकौशलेन प्रतिपादनबुद्धिसंवादमात्रत्वेन दृष्टान्तमुपादाय यथाहं युक्त्योपपादयामि / 10 घटादि .