________________ -नित्यवृत्तित्वम् ] न्यायागमानुसारिण्यलकृतम् / तथा तेन प्रकारेण तथाभिव्यक्तेः। किमुक्तं भवति? मृद एवाभिन्नाया अन्तलीनाविर्भावतिरोभावमात्रत्वादङ्गुलिवक्रप्रगुणावस्थयोरिवावस्थाविशेषोऽभिव्यक्तेः / किमन्या मृत्स्ना पिण्डशिवकघटाव्यवस्थासु ? तस्मात्तत्त्व एव तथाभिव्यक्तेः कुतोऽन्यपक्षे सपक्षाव्यावृत्तिस्तत्पक्षः सपक्षः / तत्सत्त्वं चेति साधूच्यते / तथैवाविशेषकान्तवादिनः / सपक्षासपक्षवृत्त्यवृत्त्या हरिणादिस्वरूपविपरीतापादानसाधनेविवासत्त्वापत्तिरिति / तथा विशेषकान्ते कुतस्तत्पक्षः सपक्षः / तत्सत्त्वं चादेरातः / परमाणुशो रूपादिशो विज्ञानमात्रशोऽनुपाख्यत्वं शश्च भेदात् / कालतोऽत्यन्तपरमनिरुद्धक्षणादूर्ध्वमनवस्थानाच्च कुतस्तत्पक्षः / अत्रापि तस्य पक्षे वक्तुर्वचनस्य वा स एव पक्ष इत्यर्थः / एवं वा अनित्यः शब्द इति धर्मधर्मिणोविशेषणविशेष्ययोश्चासंभवात् कुतः सपक्षोऽर्थान्तरसंबन्धसामान्याभावात् ? / साध्याभावसामान्याभ्युपगमे सपक्षासपक्षविशेषप्रसङ्गात् कुतः सत्त्वं ? / तत्र तदभावात् कृतकत्वादिसविकल्पधर्मान्तराभावात्परस्परविलक्षणनिर्व्यापारधर्ममात्रत्वात्सर्वधमोणां निरुपाख्यत्वशून्यत्वपरमार्थत्वाच्च पूर्ववच्च प्रतिवादिपक्षव्यावृत्त्यभावो, वाशब्दात पूर्ववच्चोपसंहृत्य तदर्थावबोधनो हेतुरुच्यते / तथास्थितेः। तेन प्रकारेण तथा, क्षणिकनिर्व्यापारशून्यत्वप्रकारेण अस्थितेः कस्यचिदर्थस्येति विशेषैकन्तेऽपि सर्वत्र सपक्षवृत्त्याद्यसवापत्तिरित्थमिति / तथा उभयानेकत्वेनैकान्तेन उभयमिति / सामान्यविशेषौ तदुभयमनेकाभिन्न परस्परत इत्येतस्मिन्नप्येकान्ते साध्यसाधनधर्मधर्मिण एव कुतः साध्यस्य तावन्नित्यस्याभावो धर्ममात्रस्य निमूलत्वात् खपुष्पवत् / तथा साधनस्यापि कृतकत्वस्य कृतमित्यनुकम्पितं कुत्सितमज्ञातं वा कृतकं निर्मूलत्वं पुनद्रव्यादत्यन्तभिन्नत्वादिति धर्मयोरभावः, धर्मिणोरपि शब्दघटयोरगुणाकर्मत्वादिभ्यो हेतुभ्यः पूर्वोक्तवदभाव एव / तत्सङ्ग्रहहेतुरप्युच्यते / तथाऽपूर्वत्वात् , अपूर्वत्वममूलत्वं द्रव्यगुणादीनां परस्परतोऽत्यन्तमन्यत्वात्। एवं तावत्सपक्षासपक्षवृत्त्यवृत्तिविपरीतत्वात्तवैवातर्कत्वदोषो दृष्टान्तबलात्तर्कसिद्धेरिति / अविशेषविशेषोभयानेकत्वैकान्तवादेपूक्ता दोषाः / किं चान्यत् / दृष्टान्तस्य प्रत्यक्षत्वादनुमानत्वाद्धेतोरुपनयस्योपमानत्वादागमत्वात् प्रतिज्ञायाः दृष्टान्ताभ्युपगमात्प्रत्यक्षप्रमाणीकरणमापन्नं / तस्साच लोकत्वं दृष्टान्तसंवादित्वप्रतिपादनार्थत्वाच्छास्वार्थस्य / तार्किकाणां तकॆरुपतिष्ठतां व्याख्यार्थं यथोक्तं लौकिकपरीक्षकाणां यस्सिअर्थे बुद्धिसाम्यं स दृष्टान्त इति / यथा लोको दृष्टान्तस्तद्विरुद्धपदमभिधीयते तदृष्टान्तविरुद्धमिति। ततः को दोष? इति चेत् , प्रतिज्ञातव्याघातः / किं प्रतिज्ञातं? / शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि निरपवादत्वादिति तद्व्याहन्यते / १०तावातत्त्वस्या क // तत्त्वातत्त्वस्य / ख।