________________ 42 नयचक्रम् / [प्रधानस्यएवं चेन्मन्यसे / तत्र दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वात् / दृष्टान्तो हि लोके प्रत्यक्षप्रमाणप्रसिद्धो घटपटादिरर्थः। तद्विषयं च साध्यसाधनसमन्वयव्यतिरेकविभावनं / सर्वानुमानस्य सर्वावयवानां च तद्भलेन साध्यसिद्धौ सामर्थ्यसिद्धेः / यथोक्तं-"दृष्टान्तबलाद्ध्यवयवसिद्धिस्तदाश्रयत्वात्सर्वावयवानां, तेन दृष्टान्तस्त्वतत्त्वमन्विष्यते / प्रत्यक्षत्वाच तस्य तद्वस्तुप्रतिपत्तेरशेषं तत्सिद्धान्तदर्शनमवभोत्स्यते। प्रत्यक्षग्राहे च सिध्यति परोक्षग्राहः सिछत्तदसिद्धौ संभावनाभाव एवेति" / ततस्तस्य दृष्टान्तस्यासिद्धिलॊकस्याप्रमाणीकृतत्वात् / प्रत्यक्षस्य च दृष्टान्तस्याभावे कुतो दार्टान्तिकसाध्यसाधनसमन्वयव्यतिरेका इति प्रत्यक्षनिराकरणे तर्कासिद्धिरेव / कुतस्तकोतकेत्वविचार इति तदवस्थो हरिणादिस्वरूपविपरीतापत्तिदोषः / किं चान्यत् / इहैवेत्यादि यावत् तदसत्त्वापत्तेरिति / तथा हरिणस्वरूपनिराकरणे भवान् यं यं दोषमापादयति स स तवैव / अत्र च वीप्सार्थो द्रष्टव्यः / तव तवैव एकान्तवादिनः / एवकारोऽवधारणे / यथास्मिन् साधने मम दोषो नास्ति / तवैवेति / त्वदभ्युपगमानुरूप्येणोपपादितम् / तथा मे नैव / किं तर्हि ? सर्वत्रान्यत्रापि पक्षहेतुदृष्टान्तेषु दोषास्तवैव, न ममेत्यर्थः / अप्रमाणीकृतत्वाल्लोकस्य प्रत्यक्षस्य चेति वर्तते / कारणान्तरोपन्यासोऽप्येषोऽभिधीयते, सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वापपत्तेः / यदिष्टं भवतामन्वयव्यतिरेकाभ्यामर्थानुमानं, तौ च सपक्षासपक्षयोवृत्त्यवृत्ती, सद्भलेन साध्यसिद्धिस्तयोरेव वा सत्त्वमापद्यते / ततस्तस्याः सपक्षासपक्षवृत्त्यवृत्त्योर्यथासंख्यमसत्त्वापत्तेः / तवैवाविशेषकान्तवादिनः तदुभयानेकत्वैकान्तवादिनो वेति हेतूद्देशमात्रमेतत् / तदिदानी प्रत्येकं विधीयते / तत्र तावदविशेषकान्ते कुतोऽन्यपक्षः / असपक्षो व्यावृत्तिवा अविशेषः / सामान्यमविशेष एवेत्येकान्तः। सर्व सर्वात्मकमिति // तस्मिन्नविशेषान्ते तव ग्राहे कुतोऽन्यपक्षः? / अन्यस्य पक्षोऽन्यपक्षः / प्रतिवादिनोऽन्यस्य भावात्तत्रापि चान्येनाविशेषात्सर्वसर्वात्मकैकत्वाविशेषात् / अथवान्यस्य वचनस्याभावात्त्वद्वचनात्मकत्वादेव सर्ववचनानां त्वदन्यवचनत्वं विशेषाभावादेव वा / अथवा किं न परवादिवचनयोरभावाद्युपगमनिठुरवचनानि, अन्यश्चासौ पक्षश्चेत्यन्यपक्षोऽर्थोऽस्तु / स कुतस्त्वत्पदं ? सर्वैकात्मत्वादाविशेषकान्तात् / एवं नित्यः शब्दोऽकृतकत्वादाकाशवदिति वादिनः / अनित्यशब्दपक्षवक्तृवचनवाच्यानामभावः / तद्वत्तदनित्यधर्मसामान्येन समानस्य घटादेरभावानित्यैकान्तवादिनोऽसपक्षाभावः / तदभावाधावृत्त्यभावः। वाशब्दाकुतःस्वपक्षः। सपक्षस्तद्वृत्तिवर्वा सर्वसर्वात्मकैकत्वाभेदादेव / स्यान्मतम्-आविर्भावतिरोभावयोरभूत्वाभावाद्भूत्वा चाभावानित्यत्वकृतकत्वे स्त एवाविशेषवादिनोऽपीयेतच्चायुक्तम् / कुतस्तत्व एव तथाभिव्यक्तेः / तत्त्वमेकत्वं तसिंस्तत्व एव