________________ -नित्यवृत्तित्वम् ] न्यायागमानुसारिण्यलङ्कृतम् / 41 हेतुभ्यः कुतोऽण्डहरिणामण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितया समवायाः? न सन्तीत्यर्थः / तदुपसंहृत्योच्यते-सर्वथा तत्त्ववृत्तिव्यतीतत्वात् / तस्य भावस्तत्वं / तत्त्वस्य वृत्तिस्तदतत्त्वेन तत्स्वरूपान्यस्वरूपेण च वृत्तिः / यथा द्रव्यमेव वर्तते तथा तथा रूपरसादिगुणाः स्थितिगत्यादिक्रिया / भवनव्यावृत्तिसम्बन्ध्येकपुरुषपितृपुत्रत्वादिधर्मसम्बन्धित्ववदिति तां वृत्तिं सर्वथा व्यतीतत्वात् / गुणद्रव्यादिषट्पदार्थानां सविकल्पानामसत्त्वं खपुष्पवदित्यन्ते दृष्टान्त उपदिष्टः सर्वत्र द्रष्टव्यस्तथा च योजितः / अन्यथेति वैधयेण बालकुमारवत् / यदस्ति तत्तदतीतस्वरूपतत्त्वव्यतीतं न भवति, यथा बाल एव कुमारः / कुमार एव च बालोऽन्यौ च ताववस्थाभेदात् / बालत्वमूलं कुमारत्वं कुमारत्वान्यं च बालत्वमिति / तदतत्त्वरूपा तत्त्ववृत्तिः / तां व्यतीत्य न स बालः कुमारो वेति / स च संस्तत्त्ववृत्तिव्यतीतो न भवतीति हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति चेत् / चेदित्याशङ्कायां। स्यादाशङ्का, हरिणस्वरूपं लोमशत्वं तस्य वितथोक्तिरलोमा हरिण इति / तस्यां वितथोक्तौ प्रसिद्धिविरुद्धा प्रतिज्ञा यस्य स प्रसिद्धिविरुद्धप्रतिज्ञस्तद्भावः प्रसिद्धिविरुद्धप्रतिज्ञत्वं, तस्मादेवाऽतथात्वमिति / अत्रोच्यते-नोक्तवत्तुल्यत्वात् / नेति प्रतिषेधे / नैतदप्युपद्यते / किंवत् ? उक्तवत् / उक्तेन तुल्यं उक्तवत् / यथोक्तंशास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति / तेनैतदपि तुल्यं / हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति / अत्रापि उत्तरस्यापि तुल्यत्वात् / कथमिति चेत् ? न, सर्वस्यैवापोदितत्वादित्यादि सर्व तदेव यावत् खपुष्पवत् , अन्यथा बालकुमारवदिति।किंच-लोकस्य चाप्रमाणीकृतत्वात्तथा कुतः प्रसिद्धिविरोधः? / क्ष (?) वा तत् प्रसिद्धिमिति / किं चान्यत् / एवं च नाभ्युपगमविरोधात्। ननु भवतामेकान्तवादिना लोकमप्रमाणीकृत्य लोकप्रसिद्धिविरुद्धप्रतिज्ञात्वदोषापादानमभ्युपगमविरोधाय कल्पते, तस्मादयुक्तमेवं वक्तुमिति / स्यान्मतंप्रतिज्ञादौ षद् द्वारेण स्वरूपादिविपरीतप्रतिपादनाप्रामाण्यं न शक्यते मयाभ्युपेतविधानहेतुदोषद्वारेण शक्रोमीत्यत आह-लोमशालामैक्यसपक्षासपक्षवृत्तिवृत्त्योरतर्क इति चेत् / चतुष्पावे सत्युत्प्लुत्त्य हरिणो निलोमालोमशो मण्डूक इत्युभयोरुभयधर्मापत्तौ लोमशालोम्नोरैक्ये सत्ययं हेतुर्धर्मपरिकल्पनकृताद्भेदात् हरिणालोमत्वे साध्ये सपक्षे निर्लोमन्यवृत्तेरसपक्षे च लोमशे वृत्तेविरुद्धो हेतुः, चतुष्पात्त्वे सत्युत्प्लुत्य गमनादित्यापद्यते / सपक्षासपक्षवर्तित्वसाधारणानैकान्तिको वा लोमशालोमैकपक्षाभेदाद्धर्माभेदे च सपक्षासपक्षाभावसाधारणानैकान्तिको वा, तस्मादेषोऽतर्कः। अतर्कत्वाचास्य हरिणादिवरूपविपरीतप्रतिपादनप्रमाणं / चेदित्याशङ्कायाम् , १ऽणु