________________ नयचक्रम् / [प्रधानस्यसर्वैक्यात् / किं तत्सर्वमित्यपोदितमेवेति / भिन्नार्थसमूहवाचित्वात्सर्वशब्दस्य, अर्थानर्थविषयसामान्यविशेषनानात्वैकान्तेऽर्थविषयं सामान्यमर्थविषयश्च विशेपः, तद्यथा-द्रव्यस्य पृथिव्यादेरर्थविषयं सामान्य रूपरसगन्धस्पर्शवती पृथिवी। यत्रैतचातुर्गुण्यं सा पृथिवी / रूपस्पर्शरसद्रवस्नेहवत्य आपः। एवं यत्र रूपस्पशौं तत्तेजः / यत्र स्पर्श एव स वायुरिति सामान्यं / विशेषः पुनरितरेतरधर्मव्यावृत्तिभिरितरत्र चतुःपञ्चयेकगुणत्वं यथासंख्यं, तेषामेवानर्थसामान्य पृथिवीत्वं / तत्सम्बन्धलभ्यत्वात् पृथिवी बुद्ध्य भिवानयोः / एवमप्लेजोवायुत्वानि सामान्यानि / विशेषावेतरेतरेभ्यस्त एव / स्वसामान्यभेदा विशेषाः। एतानि द्रव्याणि गुणाः कर्म सामान्यानि विशेषाः तत्समवायलक्षणश्च सम्बन्धः / इत्येते पदार्थाः / नानात्वस्वतत्त्वप्रयोजनलक्षणमित्यभिधानभेदादिति ये वदन्ति तेषां तन्नानात्वैकान्ते अतदात्मकत्वात्कुतोऽण्डमण्डूकहरिणकारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तिः / तथा समवाय अण्डग्रहणेन हरिणमण्डूकसमवायिकारणद्रव्यग्रहणं / परमतेन हरिणमण्डूकग्रहणेन सम्बद्धाणुधणुकाद्यारंभनिवृत्ताववयवि द्रव्यं कार्य गृह्यते / तस्य हरिणमण्डूकादिद्रव्यस्य धरण्यां संयोगो गुणः। उत्प्लवनं कर्म। भवनं भावः सत्ता / व्यावृत्तिरप्यभवनविलक्षणो विशेषः / तेषां तथा समवायः सम्बन्ध इति षडप्येते पदार्थाः वक्ष्यमाणखपुष्पदृष्टान्तान सन्ति / का तर्हि ? भावना, नास्ति परपरिकल्पितं द्रव्यं गुणकर्मसामान्य. विशेषानात्मकत्वात् खपुष्पवत् / असामान्यविशेषात्मत्वात् खपुष्पवत् / न पृथिवी पृथिवीतिव्यपदेश्या पृथिवीत्वादत्यंतमन्यत्वात् जलवत् , पृथिवीत्वं पृथिवीत्वमिति न व्यपदेश्यं पृथिव्या अत्यन्तमन्यत्वाजलतावत् / न सन्ति गुणकर्मसामान्यविशेषसमवायाः, अद्रव्यात्मकत्वात् , खपुष्पवत् / एवमेकैकमपीतरानात्मकत्वात् खपुष्पवन्नास्ति। इतरस्वरूपवद्वा न स्वात्मस्वरूपमिति शेषपदार्थदृष्टान्तभेदादायोज्यमिति / 'द्रव्यं द्रव्यवदभव्य' इति चनाद्भवतीति भव्यं द्रव्यं, भवनं च भावः। भवनादन्यत्वाव्यादयो न सन्त्येव वन्ध्यापुत्रवत् / भवनमपि द्रव्यादन्यत्वानास्त्येव, वन्ध्यापुत्रवत् / न भवति वा द्रव्यं भवनस्वरूपानापत्तेः वन्ध्यापुत्रवत् / एवं भवनमपि द्रव्यस्वरूपानापत्तेः, तद्वत् / एवं गुणादयोऽपि / एवं व्यावृत्तिः समवायश्चेति / अथवा क्रियागुणव्यपदेशाभावादसदेव कार्य पञ्चज्ञो यत इति। तन्नोपपद्यते निर्मूलत्वात्, खपुष्पवत् / न सन्ति गुणकर्मसामान्य विशेषसमवायाः अद्रव्यत्वात् खपुष्पवत् / एवमगुणत्वाद्गुणादन्ये, असामान्यत्वात्सामान्यादन्येऽविशेपत्वाद्विशेषादन्ये, अकारणत्वात्कारणादन्यत्। अकार्यत्वात्कार्यादन्यन्नास्ति। एतेभ्यो 10 ऽणु / 2 अणु