________________ 39 नित्यप्रवृत्तत्वम् ] न्यायागमानुसारिण्यलङ्कृतम् / / ज्वलनपवनेषु चक्षुरादिषु रूपादिषु च दृष्टान्तभेदादिति / भूमेराकाशदृष्टान्तवदाकाशस्य भूम्यादिदृष्टान्तेन तथा जलादेरपि परस्परतस्ते ते धर्मा निराकार्याः / इतरमितरस्य दृष्टान्तं कृत्वेति / . तार्किक आह-शास्त्रनिरूपणविपरीतमप्रमाणमित्यादि। शास्त्रेण निरूपणं शास्त्रे निरूपणं वा शास्त्रनिरूपणं, सन्दिग्धविपर्यस्ताव्युत्पन्नबुद्ध्यनुग्रहार्थं किं शास्त्रेण निरूपयन्ति सन्तो वस्त्वनुग्राह्येभ्यः शिष्येभ्यः? / प्रकृतिपुरुषादेव क्षणभङ्गो विज्ञानमात्रमेव द्रव्यगुणादिवेति / शास्त्रस्यापवादत्वात् / शास्त्रेणापोदिताविपरीते वस्तुन्यनुमानप्रमाणं शास्त्रस्य सन्देहाद्यपवादत्वान्न हरिणादिखभावाद्यप्रमाणं / तत्र शास्त्रेण नोह एव व्यापार इति / तनिरपवादं हरिणस्वरूपादि / तस्य निरपवादत्वात्तत्तु लोकेन यथा गृहीतं तथैव ब्यादिग्रहणान्मण्डूकस्वरूपादि तत्प्रमाणमेव निरपवादत्वादग्नेरिवौष्ण्यमिति / अत्रोच्यते-न सर्वस्येवापोदितत्वाद्यथा हि शास्त्रं घटादिवस्तु परिकल्प्यापवादप्रवृत्तं तथा हरिणादिस्वरूपं प्रत्यक्षतो लोकप्रसिद्धमप्यपवदति निरंकुशत्वात् / तत्कथमिति चेत् ? देशकालविशेषैकान्नैकान्त इत्यादि / अथवा शास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति वक्ष्यते / शास्त्रनिरूपणं पृथिवीयत्वापवादि प्रकृतिपुरुषादि वा तस्य चा विपरीतं तर्कतः प्रतिपाद्यमानमप्रमाणं, प्रत्यक्षतर्कयोरविषयार्थत्वाच्छास्त्रस्य / केनापोद्यते / शास्त्रं न हरिणस्वरूपादिविपरीतमप्रमाणमिति वर्तते / कस्य ? प्रत्यक्षसिद्धेः / कस्मात् ? सापवादत्वात् / तद्धि हरिणालोमत्वादि प्रत्यक्षप्रसिद्धेन लोमशत्वादिना निराक्रियमाणत्वादप्रमाणमेवेति। लौकिक आह-न सर्वस्यैवापोदितत्वादिति / शास्त्रेष्वपि हि हरिणखरूफादि प्रत्यक्षसिद्धमपोद्यत एव / कथं निरपवादत्वं शास्त्राणां ? वरं हरिणस्वरूपादिविपरीतप्रतिपादनं तर्कतः / तन्मात्रापवादात् / तार्किकैस्तु शास्त्रेण सर्वमपोद्यते, प्रत्यक्षतो लोकप्रसिद्धं कारणं कार्य च / तत्कथम् ? इति चेत्, देशकालकृतविशेषकान्तिनः / देशकृतः कालकृतश्च विशेषः देशकालकृतविशेषः / स एवैकान्तः, स यस्यास्त्यसौ देशकालकृतविशेषकान्ती तस्य वादिनः / प्रतिदेशं प्रतिसमयं च सर्व विशिष्टमेव न समान किञ्चिदतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदान। कुतो हरिणः कुतस्तस्य लोमाधवतिष्ठते / अतः सर्वमपोदितं / किं चानापोदितं / किं वात्र प्रत्यक्षमनुमानं चेति / तथा सर्वं सर्वात्मकैकान्ते मण्डूकोऽपि लोमश एव / स्थावरस्य जङ्गमतां गतस्य, स्थावरस्य स्थावरतां, जङ्गमस्य स्थावरतां, जङ्गमस्य जङ्गमतां गतस्येति वचनादिति / ननु तेन वादिना सर्वं समर्थित नापोंदितमिति चेत, सर्वस्य सर्वात्मकत्वे 1 न। 2 °न्नतु।