________________ नयचक्रम् / [प्रधानस्यव्यवस्थितस्तथा गृह्यत एव स्वस्थेन्द्रियमानसैस्तत्र तादृशेऽर्थे पुनर्वचनमिदमेवं नैवं वेति प्रत्यक्षप्रसिद्धेर्बाधकमापद्यते / यदि तद्वचनं प्रमाणं स्थान पुनस्तत्प्रमाणतया प्रसिद्ध्या स्वयमेव वाध्यमानत्वात् प्रसिद्धार्थ वचनं न, नियमादनुवादाद्वा अन्यत्र प्रमाणं स्यादित्यतो ज्ञापकमाह-अनुवादादिभावाभावे यः सिद्धे सत्यारम्भो नियमार्थः स इति परिभाषाया लोके दृष्टत्वात् / लोकव्यवहारानुवादिव्याकरणादिशास्त्रमपि लोकत एवेति कृत्वा कीदृक् पुनस्तद्वचनमित्यत आह-न यथेदं लोकेन गृह्यत इति / इतिशब्दः प्रदर्शने / इदं तद्वचनं प्रसिद्धेर्बाधकाभिमतमिति प्रदर्श्यते / कथं? नेति प्रतिषेधः। येन प्रकारेण यथा यथा मृत्पिण्डदण्डचक्रसूत्रोदककुलालपरिस्पन्दनिवृत्तो घटः पृथुबुध्नादिस्वरूप उदकाद्याहरणसमर्थ इति लोकेन चक्षुरादिभिगृह्यते नायमेवंस्वभावः, किं तर्हि ? यथाहं ब्रुवे सर्वे सर्वात्मकत्वात् पटकटरथादिरूपोऽपि गुणकर्मसामान्यविशेषसमवायाश्रयः। परमाण्वाद्यसदत्यन्तपरोक्षपार्थिवद्रव्यारब्धस्तव्यतिरिक्तोऽवयवी रथाङ्गादिबद्धबुद्याविभज्यमानो रथपरमाणुः पुना रूपादिषु न बुद्धिमात्रेण तिष्ठति निरूपाख्यत्वादिति वा तथा तथा भवतीति शास्त्रविद्वचनं मा भूदनर्थकमिति प्रसिद्धर्बाधकमापद्यत इति न्याय्यमुच्यते / यथोक्तं 'प्रमाणानि प्रवर्तन्ते विषये सर्ववादिनाम् / * संज्ञाभिप्रायभेदात्तु विवदन्ते तपखिनः // इति / तसादप्रमाणं प्रत्यक्षविरुद्धत्वाच्छास्त्रकारवचनं, शास्त्रकारवचनाप्रामाण्येनप्रत्यक्षाप्रामाण्यम्, एवं च सति को दोषस्तत्र प्रत्यक्षप्रमाणीकरणे सर्वविषयापत्तिस्तर्कतः / सर्वभावानां प्रत्यक्षप्रमाणसिद्धानां विपर्यय आपादयितुं शक्यते तर्कतः / तद्यथा-अलोमा हरिणश्चतुष्पाचवे सत्युत्प्लुत्य गमनात् , मण्डूकवत् / मण्डूकोऽपि लोमशः, तसादेव हेतोहेरिणवत्। यूका पक्षिणी पद्यात्वांगमरवत् / भ्रमरोऽपक्षः पद्यात्वाचूकावत्, तथा पृथिव्यप्सुधा पदार्थत्वादाकाशवत् / असाधारणधर्मसम्बन्धेनापि रूपरसगन्धस्पर्शधर्मसम्बन्धिनी न भवति तत एव तद्वत् / तथा बौद्धमतेऽपि पृथिवी न भूर्महाभूतत्वात् , रूपत्वाच जलवत्, न करकटधारणधर्मा, तत एव तद्वत् / एवं शेषपदार्थभेदेष्वपीति / जलानलानिलेषु व्योमनीन्द्रियादिष्वात्मादिषु यथाप्रक्रियं यथासम्भवं च स्वरूपनिराकरणम् / असाधारणधर्मनिराकरणे च पदार्थत्वमहाभूतत्वरूपत्वादिहेतुकानि साधनानि योज्यानि / महदहंकारतन्मात्रेन्द्रियशब्दादिष्वात्मनि च द्रव्यगुणकर्मसामान्यविशेषसमवायेषु सप्रभेदेषु नामरूपयोः संज्ञाविज्ञानवेदनासंस्कारेषु क्षित्युदक 1 न प्रत्यक्षप्रामाण्यम् इति प्रतिभाति /