________________ -नित्यप्रवृत्तत्वम् ] न्यायागमानुसारिण्यलङ्कृतम् / वर्तते यदपेक्ष्य शास्त्राणि सार्थकानि स्युस्तस्मादवगम्यतामिदं जगलोकप्रसिद्धमेवानियतानुपरताद्यन्तरदृष्टकारणकार्यप्रबन्धमिति / ननु यथान्यैः कल्पितमुपरतव्यापारं सत् प्रधानमतीन्द्रियं पुनरिन्द्रियग्राह्यत्वादिभावेन जगत् सृजति, पुनरात्मानं संहत्योपकृतव्यापारं तिष्ठति। न चात्यन्तासत्कार्य क्षणोत्पन्नविनष्टमसम्बद्धमूलं वैतदिति / इतिशब्दो हेत्वर्थः। को हेतुः? शास्त्रनैरर्थक्यं / कस्सिन्साध्ये? शास्त्रारम्भवृथाभावे / अत आह-वृथैवमादौ शास्त्रारम्भः। कतर्हि शास्त्रमर्थवत्स्यादिति चेत् / अतीन्द्रिये पुरुषार्थसाध्यसाधनसम्बन्धे / कोऽसौ ? इत्यत आह-अत्र तु शास्त्रमर्थवद् स्यादिदंकाम इदं कुर्यादिति। इदंशब्देन सर्वनाम्ना सामान्यवादिनां सर्वाः क्रियाः फलेच्छाप्रेरितास्तत्साधनीः सूचयति / अग्निहोत्रं जुहुयात्स्वर्गकामः / पुत्रकामो यजेत, पशुकामो यजेतान्नाद्यकामो यजेतेत्याद्याः क्रियाः क्रियाफलसम्बन्धस्यातीन्द्रियत्वाऽकृतप्राप्ये. शास्त्रमर्थवत् / प्रत्यक्षादिप्रमाणैरनधिगम्य इत्यर्थः / __अर्यो. हीत्यादि / अर्थादनपेतोऽर्थ्यः / हिशब्दो यसादर्थे / यस्मात् क्रियाया एवोपदेशोऽर्थः / स साधनायाः फलादिसम्बन्धे (दे) व्याश्चित्रादिवत् / आदिग्रहणाच्चित्रपुस्तकाष्ठकर्मादिवत् / यथावयवस्थानविन्यासवर्णसंयोगप्रविभागविषयविनियोगाद्युपदेश एवोपयोगात्सार्थको न कुड्यवर्णचित्रकारादिखरूपोपदेशस्तत्र तदनुपयोगात् / तथा नित्यक्षणिकवादिवदतत्त्ववर्णनं घटपटादेः त्रिगुणकारणपूर्वकत्वादिवर्णनं जगतः सततप्रवृत्तिक्षणिकानुपाख्यात्वात्यादिवणेनं वा / स्यान्मतं-प्रधानक्षणभङ्गादिवादारम्भोऽप्रत्यक्षविषयत्वात्सार्थकः क्रियाक्रियाफलसम्बन्धोपदेशवदिति / एतदपि नोपपद्यते, यसान्न तु लौकिक एव गृह्यमाणेऽर्थे इदमेवं चेति सार्थको विचार इत्यभिसम्बन्धः / प्रसिद्धार्थविषयस्य विचारस्यानित्वादोषनिष्टत्वात् (1) नेति प्रतिषेधे / तुर्विशेषणे / लोके भवो लौकिकः / देशकालपुरुषक्रियाविशेषाद्यपेक्षरूपादिमये कार्यकारणमृत्पिण्डादिघटाद्याकाशादिके प्रत्यक्षत एव गृह्यमाणे इदं सर्व सत्त्वरजस्तमःसंज्ञत्रिगुणात्मकमेव, न चैतदेवं क्षणभङ्गजन्मात्मकं / न चैवमित्यादिविचारः किंसम्बन्धः, 1 किंफलः, 1 को वात्र पुरुषार्थसाधनपरिज्ञानोपयोगः ? इति विमृश्यतां भवद्भिरेव / स्यान्मतं-लोकदर्शनगप्रमाणमव्युत्पन्नलोकप्रत्यक्ष व्यभिचारान्मृगतृष्णिकादिष्वेव / इति / अत्रोच्यते / तथा सति प्रत्यक्षस्याप्रमाणीकरणं प्रमाणज्येष्ठस्य / मात्र संस्था मृगतृष्णिकादिप्रत्यक्षज्ञानव्यभिचारात्सर्व प्रत्यक्षं व्यभिचरतीति / किं तर्हि 1 अनुपहतेन्द्रियमनःप्रत्यक्षं यत्तन्न व्यभिचरतीति गृह्यतां / दृशा च प्रत्यक्षेण लोके घटपटादिर्यथासौ येन प्रकारेण येन खरूपेण 1 वर्तेत / 2 "पहृत / 3 कन्ध