________________ 35 - नयचक्रम् / [प्रधानलदकसूत्रकुलालादीनि घटादीनां कार्याणां तानि नानाजातीयानि तन्तुतुरीवेमकुविंदादीनि पटादीनामित्येवंप्रकाराणि / तेषां भेदाः प्रत्यक्षकारणनानाभेदास्तैस्तेषां चाभिव्यक्तिर्घटपटादिकार्यरूपेण सैव स्वभावो यस्य तदिदं प्रत्यक्षकारणनानाभेदाभिव्यक्तिखभावं / किं तत् ? जगत् / एवेत्यवधारणे / किमवधारयति / प्रत्यक्षदृष्टशुक्रशोणिताहारादिकारणान्येवेत्यवधार्यन्ते / किमतो निरस्तमव्यक्ताद्यदृष्टकारणान्तरं / तस्माद् दृष्टकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगत्किमिति नाभ्युपगम्यते / किमित्यदृष्टं कारणान्तरं परिकल्प्यते ? इति / एवं तावत्कारणे कार्यसदसवानियम उक्तः, कार्यानियमोऽपि च / कार्यमेव सद्भूतकालादिविशेषकारणमेवेत्यनियमः। प्रधानादि शास्त्रकारपरिकल्पितकारणपूर्वकमेवेति वा। किं कारणं? तथानुगम्यमानदृष्टान्ताभावात् / किं ततावानियमः। कारणाध्यासाविमुक्त्यनिर्मूलत्वं कार्यस्येति तथानुगम्यदृष्टार्थत्वात् / मृत्पिण्डशिवकेत्यादि पांशुमृत्पिण्डादेरित्यन्त्यस्य दण्डकस्योपरि अनियतादिसदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वमिति वक्ष्यमाणसम्बन्धत्वात् कार्यमेव / सदेवासदेव वा कारणं कालादिसादिकारणमित्यस्य वा नियमप्रदर्शनार्थमुदाहरणमाह-मृत्पिण्डशिवकेत्यादि यावत् पांशुमृत्पिण्डादेरिति / एषां मृत्पिण्डाद्यवस्थाविशेषाणां वातायनरेणुपर्यन्तानामेव लोके दृष्टत्वात् / पुनरुपचयात्प्राप्तमानन्त्यं येषां स्कन्धानां ते पुनरुपचयप्राप्तानन्त्यस्कन्धाः / वातायनरेणुभ्यः प्रभृति पुनरुपचयक्रमेण पांशुमृत्पिण्डशिवकस्थासकोसकुशूलशर्करिकापांशुवातायनरेणव इति / चक्रकक्रमेण कारणकार्यानियमो दृष्टः / उत्क्रमेणापि च सङ्घातभेदाभ्यां कार्यकारणसदसत्त्वानियमो दृष्टः / पिण्डमुपमृद्य शिवककरणात् / शिवकं चोपमृद्य पिण्डकरणात् / स्थासकादीनामन्यतममवस्थाविशेषमुपमृद्यापि पिण्डादिकरणात् / क्रियाक्रियाफलक्रमेण च कदाचित्कारणकार्यानियमदर्शनादिति अनियतादि / इत्थमनियत आदिरस्येत्यनियतादि जगदिति सम्बध्यते / तदेवानियतसदसद्भूतकारणकार्यमसद्भूतं कारणं तस्याध्यासस्तेन कारणेनाध्यासोऽधिष्ठानं तेन कारणाध्यासेनाविमुक्तिरत्यागः / कारणसामान्याविनाभावः / न त्वत्यन्तनिर्मूलोत्पतिविनाशलक्षणकार्यत्वं खपुष्पवत् / तथैव लोके दृष्टत्वात् / तयाविमुक्तानिर्मूलत्वं कार्यभूतस्य जगतः / अतः प्रोक्तहेतोः दृष्टकार्यकारणसदसत्त्वानियमास्वरपरिकल्पितप्रधानाद्यदृष्टैककारणानुपपत्तेः कालादिविशेषकारणैक्यानुमानभावाच्च कारणसामान्यमात्रानुमानाच्चावगम्यतां न किञ्चिदन्यत्र फलं तच्छास्त्रेण क्रियते / निरर्थकानि शास्त्राणीत्यर्थः / किं तद्यल्लोकव्यवहारफलादतिरिच्य