________________ -नित्यप्रवृत्तत्वम् ] न्यायागमानुसारिण्यलकृतम् / पुलिकामात्रमपि यदि न प्रकाशयति / प्रकाशात्मकः सन्न प्रदीप इति ज्ञायतेग्निरिति / वैधर्म्यदृष्टान्तो वा गृहप्रदीपो गृहं प्रकाशयन्नस्ति / यदि न तथाग्निः स्वमाश्रयं प्रकाशयति प्रकाशात्मकः संस्ततो नास्तीति गम्यते / किं वान्यत् / भसच्छन्नाग्निसाधाभावोऽपि च प्रधानस्य च्छादनाभावादित्यत आहछादनाभावोऽपि च प्रधान इति / अग्निर्भमवत्प्रकृतेरावरणाभावाद्भसच्छनाग्नितुल्यं न भवति प्रधानमतो विशेष्यक्रमः / निरावरणाग्निदहनप्रकाशनवत् / तत्स्वभावत्वान्नित्यप्रवृत्तेनैव भवितव्यमिति तदवस्था नित्यप्रवृत्तता ततशनभिव्यक्तिसाम्यावस्थानानुपपत्तिः / स्थान्मतं-यद्यपि प्रधानं महदादिभावेनात्मान्तरत्वप्रकाशनार्थं पुरुषस्य प्रवर्तते तथापि केषाञ्चित्पुरुषाणां कृते प्रयोजनेऽन्येषामकृते कालक्रमेण व्यक्त्यव्यक्तिसाम्यवैषम्यावस्थाः प्रतिपद्यते / सा चास्य प्रवृत्तिः स्वभावानियतेः कालाद्यदृच्छाद्यन्यतमादेतदपि नोपपद्यते, कालादिकारणान्तरनिरपेक्षस्येत्यादि / प्रधानं हि कारणं नियतिकालस्वभावेश्वरयदृच्छाद्यन्यतमानपेक्षं कारणं जगतोऽभ्युपगतं भवता / न तु यथा लोकनये क्वचित्कालोऽपि, नियतिरपीत्यादि / स्वतन्त्रत्वाच्च तस्य प्रकृतिपुरुषयोः स्वरूपभेदपरिज्ञापनस्य वार्थस्यानुरूपश्रोत्रायेकादशेन्द्रियग्रामस्य शब्दबुद्ध्यादिविकल्पग्रामस्य वचनादानविहरणानन्दोत्सर्गकर्मशब्दाद्यर्थग्रामस्य च निर्वर्तने स्वतत्रत्वान्न कारणान्तरापेक्षास्ति, सर्वपुरुषार्थप्रवृत्तत्वाच्च कृतार्थस्याकृतार्थस्य च यथासंख्यं साम्यावस्थाने निवृत्तेश्च प्रयोजनाभाव इति / अत आह-निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृते कृतकृत्यत्वात्किं साम्यावस्थानेन? अकृतेऽप्यकृतकृत्यत्वात्किं प्रतिनिर्वृत्त्या प्रयोजनमसिद्धौदनसूपकारनिवृत्तिवदिति तदवस्थमप्रयोजनत्वम्।अत्र चोद्यम्-ननु प्रागुक्तमनभिव्यक्तिसाम्यावस्थाने चायुक्ते अप्रयोजना निर्वृत्तानिवृत्तार्थक्रियौदासीन्यवदित्यतः पुनरुक्तमिति। अत्र क्रमः। न कारणान्तरापेक्षा प्रतिषेधपरत्वादस्य प्रवृत्तिनिवृत्त्योः प्रधानस्याप्रयोजनत्वमात्रप्रतिपादनपरत्वात्तस्येत्यदोषः / अव्यक्तिसाम्यावस्थानानुपपत्तेश्चेति / अप्रयोजनत्वादिभिरनभिव्यक्तिसाम्यावस्थाने अनुपपन्ने ततश्चाव्यक्तिसाम्यावस्थानानुपपत्तिः। 'किमिति' किं कारणं जगदेवंखभावमिति न गृह्यत इत्यभिसम्बन्धः / 'सततसमवस्थितसमनुप्रवृत्तीति' / सततं सर्वकालं समवस्थितानित्यानुपरतासमनुप्रवृत्तिः कारणकार्यप्रवृत्त्यात्मिका / प्रकर्षण वृत्तिर्यस्य तदिदं जगत्सततसमवस्थितसमनुप्रवृत्ति ह्यकारणनानाभेदादिव्यक्तिस्वभावमिति / प्रत्यक्षाणि च तानि कारणानि च प्रत्यक्षकारणानि मृत्पिण्डदण्डचक्रो १०स्वाम्यत्व