________________ [प्रधानस्य नयचक्रम् / स्वात्कारणान्तरंसाचिव्यगुणोपेतमपेक्षत इति / एतच्चायुक्तं / ज्ञानार्थत्वात्। उक्तंच "धर्मज्ञानवैराग्यैश्वर्याणि बुद्धिधर्मः। अधर्माज्ञानवैराग्यानैश्वर्याणि च / तेषामष्टानां स मुक्तिबध्नात्येकेन में चयतीति / तस्य प्रधानस्य ज्ञानार्थस्य परिणत्यवस्थात्मकस्यायुक्ता सचिवापेक्षा / स्यान्मतं-परतन्त्रत्वात्सहायान्तरमपेक्षते, तच्च न, स्वतत्रत्वात् / स्यान्मतं क्वचित्प्रधानं कारणं क्वचिदन्यदव्याप्तित्वाल्लौकिककालादिकारणवदित्येतच्चायुक्तम् / अप्रतिहतसर्वगतत्वात्तस्य / अथवात्मान्तरप्रकाशनमिति / आत्मा पुरुषः / आत्मनोऽन्य आत्मात्मान्तरं तस्य भावः आत्मान्तरत्वं पुरुषाद्भिनं त्रिगुणस्वभावं. स्वमात्मानं प्रधानपुरुषाय प्रकाशयति / पुरुषाद्वान्यः पुरुष आत्मान्तरं तस्य भाव आत्मान्तरत्वं पुरुषान्तरत्वं तस्मै पुरुषाय प्रकाशय्यात्मस्वरूपं पुरुषान्तराणां प्रकाशयति / पुरुषान्तरत्वं वा चैतन्यस्वरूपमध्यस्थशुद्धकेवलत्वैः परस्परभिन्नः पुरुषान्तरस्थैः पुरुषान्तरेषु प्रकाशितेष्वप्यन्येषां पुरुषाणां यत्पुरुषान्तरत्वं तैरेव चैतन्यादिभिः युक्तं प्रकाशयति / प्रकृतेर्वा खयमचेतनाया अचैतन्यस्वरूपस्य प्रकाशनमयं हि धर्मस्तस्य ज्ञानार्थस्य स्वतन्त्रस्याप्रतिहतसर्वगतत्वस्य प्रधानस्य / ___ एवं तस्य स्वभावधर्म सामर्थ्यदानीमनभिव्यक्तिसाम्यावस्थानप्रतिपक्षभूतं नित्यप्रवृत्तत्वं प्रधानस्यानुमिमीते। अतस्तेन नित्यप्रवृत्तेनैव भवितव्यमिति प्रतिज्ञा। अत इत्यनन्तरोक्तधर्मत्वात् प्रधानस्य तद्धर्मत्वमिदानीं हेतुत्वेन व्यापारयितुमाहसामान्यतः तत्वभावत्वादिति। स स्वभावो धर्मों यस्य तत्तत्स्वभावं प्रधानं पूर्वोक्तहेतुभिर्विशेषितमतस्तन्नित्यप्रवृत्तं भवितुमहेति / इह यद्यत्स्वभावं तत्तेनैव स्वभावेन नित्यप्रवृत्तं दृष्टं, यथाग्निर्दहनप्रकाशनप्रवृत्तः, यत्पुनर्नित्यप्रवृत्तं न भवति न तत्तत्स्वभावं / यथा न किञ्चित्तादृगिति / दहनादितत्स्वभावस्याग्नेस्तथाप्रवृत्त्यदर्शनात्साध्यधर्मवैकल्यं दृष्टान्तदोष इति। तन्निदर्शयन्नाह-ननु भस्मच्छन्नोऽग्निरपि न दहति, न प्रकाशयतीति दहनतपनयोरभेदात् / इति / अत्रोच्यते। अथ कथं जीवतीति जीवनमग्नेश्वेतनत्वात् / चैतन्यमाहारलाभालाभयोः पुष्टिग्लान्यादिदर्शनान्मनुष्यवत् / सचेतनत्वं दहने जीवति स्थिते जीवितपर्यायत्वात् / स्थितेरिन्धनदहनाविनाभावादचेतनत्वमभ्युपगम्यापि स्थितिप्रकाशनत्वमदहनात्मकस्यानेः प्रत्यक्षानुमानविषयस्य सतस्तथा प्रत्यक्षानुमानाभ्यामग्रहणेऽस्तित्वे प्रमाणान्तरासिद्धेः। कथं ज्ञायतेऽग्निरित्यदहनप्रकाशमानोऽप्रकाशयन् वा द्रव्यान्तरं तावत्कोशकादि स्वाश्रयमात्रं तत्परिणामस्य तावत् / स्वपरिणाममात्रमपि खाश्रयद्रव्यं कोशकाद्यप्रकाशयन् कथमग्निरित्युच्यते ? / कोशक इत्युच्यते।अत्र पुलिकादृष्टान्तो गृहदीपकः। गृहे प्रज्वालितः प्रदीपको गृहप्रदीपकः / यथा गृहप्रदीपक: