________________ व्याख्यानम् ] न्यायागमानुसारिण्यलकृतम् / चेत्यादि / नन्वित्यनुज्ञापने / त्वयाप्येतदादिष्टं सर्व देशादिति / तस्माद्देशादेः सर्वत्वात्सर्वात्मकत्वं, सर्वात्मकत्वाच वैषम्यावस्थैव / इतिशब्दो हेत्वर्थे / यस्माल्लौकिकनकृतित्वमेव प्रकृतेष्टत्वा(?)भिमतायाः। कथं? यथा हि लौकिकी प्रकृतिर्देशादिविषमावस्थैव सती सर्वकारणात्मिका कार्यात्मिका विषमा समा च व्यक्ता चाव्यक्ता च। तथा सांख्यपरिकल्पितप्रकृतिरपि स्यात् / किं कारणं? / सर्वात्मकत्वाद्देशादिवत् / मयूराण्डकरसवद्वा वैषम्यावस्थैवेत्यर्थः / साम्यावस्थैव वा देशादेरपि सर्वात्मकत्वात्प्रकृतिवदिति। किं चान्यत् / एते अपि च कल्पने नोपपन्ने देशादीनामनभिव्यक्तिः प्रकृतेः साम्यावस्थानानामिति / कस्मात् अप्रयोजनत्वात् , नहि देशादीनामनभिव्यक्ती प्रयोजनमस्ति / पुरुषविमोक्षणहेतोव्यक्तरूपतया प्रवर्तमानानां / तथा पुरुषार्थसिद्धेरनिवृत्तौदनस्य पचेः क्रियायामोदासीन्यवत् / नापि निर्वर्त्तितार्थायाः प्रकृतेः पुनरात्मानमुपसंहृत्य साम्यावस्थाने किञ्चित्प्रयोजनमस्ति सिद्धौदनस्यौदनार्थापचनादिप्रवृत्तिवत् / अथवा प्रकृतेरेवानभिव्यक्तिसाम्यावस्थाने न युक्ते अप्रयोजनत्वात् / अप्रयोजनत्वं निर्वृत्तानिवृत्तार्थत्वात् / यदि निर्वृत्तार्था सिद्धौदनरन्धनवदयुक्तं साम्यावस्थानम् , अनिवृत्तार्था चेत्प्रधानमसिद्धौदनौदासीन्यवदयुक्तं साम्यावस्थानं। तथानभिव्यक्तिः। किं कारणं? प्रकाशनार्थं प्रवृत्तयो व्यक्तिवैषम्याभ्यां तदर्थसिद्धेस्ताभ्यामृते वा सिद्धेः / अनभिव्यक्तिसाम्यावस्थानयोरपि प्रवृत्तिविशेषत्वात् / द्विधाप्यप्रयोजनत्वादयुक्तमिति / अथवा प्रयोजनानभिव्यक्तिर्निवतार्थत्वात् देशादिरूपेण प्रकाशिकतात्मवृत्तिः / किमर्थं नाभिव्यज्यते? / किमर्थं वा सर्व पुरुषार्थमकृत्वा साम्येनावतिष्ठते?। सायैश्च द्विविधपुरुषार्थसिद्ध्यै प्रकृतिप्रवृत्तिरिष्टानाकस्मिकी यदृच्छावादिमतवत् / न चेश्वरस्वभावादिकारणवादिमतवद्वा कारणान्तरं / यथासंख्यं चात्र दृष्टान्तद्वयं दर्शयति-निवृत्तानिवृत्तार्थक्रियौदासीन्यवदिति पचनापचनवदोदनस्येत्यर्थः / स्यान्मतं-तस्याः प्रकृतेरव्यक्तिसाम्यावस्थाने कालनियतियदृच्छास्वभावेश्वगधन्यतमकारणवशात्।इत्येतच्चायुक्तं / प्रकृतिः कारणत्यागेनाभ्युपेतविरोधदोपसम्बन्धिनी / यस्मात् कारणान्तरस्य वा तथा प्रणेतुरापत्तिः / कारणादन्यत्कारणं कारणान्तरं, प्रकृतेरन्यत्कारणं यत्प्रकृतितया प्रणयन्ति तदस्ति स्वभावनियतिकालयदृच्छेश्वरादीनामन्यतमदित्यापन्नम् , अनिष्टं चैतत् / कारणान्तरनिरपेक्षस्य कारणस्य स्वकार्याकरणं च युक्तिविरुद्धमित्यत आह / आत्मान्तरप्रकाशनमयं हीत्यादि, यावत्प्रधानस्य धर्म इति / आत्मनोऽ न्य आत्मात्मान्तरं तस्य भाव आत्मान्तरत्वं परस्परविभिन्नमहदहंकाराद्यवस्थान्तरत्वं तस्य प्रकाशनं। हिशब्दो यस्सादर्थे। यस्सादनभिव्यक्तेः साम्यावस्थानस्य च प्रतिपक्षोऽवस्थान्तरप्रकारत्वेनात्मप्रकाशनमयं प्रकृतेधर्मः / सान्मतम्-उपायानभिव्यक्त न, च, 5