________________ 32 नयचक्रम् / [सामान्यविशेषरनन्यत्वात्सेवासेवकयोर्यथेष्टं विग्रहसम्बन्धौ / युक्तं हि ताभ्यामीप्सितार्थप्राप्तियुक्ताभ्यां भवितुं नानीप्सितक्लेशभाग्भ्यां / को दृष्टान्तः? सर्वशास्त्रज्ञान्यतरव्याख्यानवत् / यथा सर्वशास्त्रज्ञः पुरुषो व्याकरणाद्यन्यतमच्छास्त्रमीप्सितमेव व्याचष्टे तथैतदिति / अत्र ब्रूमः / तत्र देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्ननृपादपि स्वनगरभाण्डागारादिक्षेत्रप्रतिबन्धवत् / रवेः प्रभातादिकालप्रतिबन्धवत् / प्रसाददानाभिमुख्याकारावबन्धवत् / द्वितीयकर्मण्यताप्रदर्शनादिनिमित्तावबन्धवत् / शास्त्राज्ञादृष्टान्तस्यापि तादृग्विधावबन्धसद्भावे सत्यव्याख्यातवादनियम एव फलस्येत्यत्र आह-ज्ञाव्याख्यानवत् / सर्वज्ञशास्त्रज्ञोऽप्येभिरेवाववन्धैरीप्सितं न व्याचष्ट इति लौकिको ब्रवीति / अथ देशादयः किमिति विकल्पद्वयान्तःपातेन निरोत्स्याम्येतदित्यभिप्रायः / ये देशादयोऽवबन्धकाभिमतास्ते यदेकार्थतयेष्टास्ततस्तेषामकारणत्वादसर्वत्वं कारणभावाद्धि सर्व सर्वात्मकं स्यात्तदभावादसर्वत्वं देशादीनां प्राप्तमसर्वत्वाच्च तेषामतत्रत्त्वं तेषु कस्यचित्तदधीनवृत्तित्वभावात् / ततोऽतंत्रत्वादप्रतिबन्धकत्वमपि / अथाचक्षीथास्ते देशादयः कारणमिति। ततः कारणं चेत्सर्वकारणत्वात्सर्वात्मकत्वात्किमिति सर्व न भवति ? भवत्येवेत्यर्थः। कस्मात्समुदितकारणत्वात्समुदितकारणत्वं सर्वकारणत्वात् सर्वात्मकत्वाच्च / अत्र प्रयोगः-सर्व सर्वत्र स्यात्समुदितकारणत्वात्संयुक्ततन्तुपटवत् / यथा तन्तूनां परस्परसंयोगे सति नियमात्पटो भवति खकारणत्वसन्निधानात् / एवं सर्वकारणत्वसर्वात्मकत्वसद्भावे को देशादिप्रतिबन्धो नामान्य इति / किमिति शुचा सर्व न भवेदिति / अथवा सर्व न भवतीत्यादि स एव लौकिक आशङ्कते / अथ मतं भवतः साङ्ख्यस्य सर्व न भवति शरीरक्लेशसु खाथानर्थप्राप्त्यादि, कुतः१ अनभिव्यक्तत्वात् / 'अजू व्यक्तिग्रंक्षणगतिषु' / म्रक्षि. तमभिव्यक्तं स्फुटीकृतमनभिव्यक्तमस्फुटं / अनभिव्यक्तत्वाद्देशादेः कारणस्य . सर्व न भवति / को दृष्टान्तः? प्रधानसाम्यावस्थानवत् / यथा प्रधानं सत्त्वरजस्तमस्त्रिगुणत्वसाम्यावस्थानेऽनभिव्यक्तत्वात्सर्वकारणमपि सत्सर्वभावान प्रकरोति घटपटादीन् / अथ च प्रकरणात्प्रकृतिः, प्रधीयन्ते भावास्तत इति प्रधानमित्यादिभिर्नामभिरुच्यते / तस्य चानभिव्यक्तत्वं तत्साम्यावस्थानान्मन्येथास्तथाहि-देशादिकारणं साम्यावस्थानादनभिव्यक्तं प्रधानवत्सर्वं कार्य न कुरुते, लोकप्रसिद्धमप्यत्रोदाहरणं मयूराण्डकरसगतग्रीवादिवत् / यथा मयूराण्डकरसावस्थायामेव मेचकवर्णग्रीवाद्यवयवानभिव्यक्तिस्तत्साम्यावस्थानात् , अतः सर्व न भवति मयूराण्डकरसवदतः सर्व न भवति मयूराण्डावस्थायामिव तद्रीवादिवदिति / अत्रोच्यते-मेवं मंस्थाः। ननु १०पीवा।