________________ -व्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / 31 कारणाकरणयोरेवानियमे / किमर्थं पुनः करोतीति कारणमिति शब्दव्युत्पत्तिराश्रीयते ? इति / उच्यते अविदितवेदनेत्यादि / अज्ञातज्ञापनमविदितवेदनमर्थोऽस्य विधेरित्यविदितवेदनार्थो विधिस्तत्परतायां वाक्यप्रवृत्तेः / तस्यामवस्थायामनुपजनितविषयत्वादपवादस्पर्शस्य / तदा हि करोतीति कारणमिति कारणत्वविधानमात्रं क्रियते / देशकालादिविशेषाविशेषणादसति स्वविषये कमर्थमपवादः स्पृशेत् ? किं करोत्येष न करोत्यपि क्वचित्कदाचिदिति ? / तदा स मन्यते वक्ता / इदं तावत्प्रतिष्ठां यातु / करोतीति करणमिति प्रतिष्ठिते चामिंस्तत उत्तरकालं सिद्धे सति कारणत्वे संभवतः / कार्यसत्त्वासत्त्वयोस्तेन विशेषणप्रकारेण करोत्येव न करोत्येवेति विकलादेशवशानियमोपपत्तेर्विशेषणमाश्रीयते / को दृष्टान्तः? नीलोत्पलम् / यथा हि नीलोत्पलं भवतीति तद्भवनमात्रं विधीयते / नीलमेवोत्पलमेवेति वा नियमविशेषानाश्रयणात् / तथा करोतीति कारणमिति क्रियाभवनमात्रं विधीयते / करोत्येव न वेत्यनाश्रित्य विशेपनियमं / यथा वा नीलं तिलकंबलादिविशेषानपेक्षमुत्पलमपि रक्ततादिविशेषानपेक्षं परस्परविशिष्टमुभयमुच्यते / तथा करोतीति कारणमिति करणमिति करणमात्र देशकालादिकार्यप्रतिवध्यप्रतिवन्धनिरपेक्षमुच्यते / अथवा शबलोत्पलत्वे सत्यपि तस्य धर्मभेदानपेक्षं नीलोत्पलमित्युच्यते / तथा कारणभावाभावभेदधर्मनिरपेक्षं क्रियामानं करोतीति कारणमित्युच्यते / तथा न्यग्रोधफलं / तेन प्रकारेण तथा तथा प्रागुक्तसदसत्वानियमात्तु कारणे कार्यस्य कारणतायामेव करणाकरणे। तथा कार्यकरणाकरणानियमात्तु कारणस्य कार्यस्य कार्यत्वानियमः / वटन्यग्रोधोदुम्बरादिफलानां फलत्वात् पुष्पकार्यत्वानुमानप्रसङ्गे फलमसत्कारणं दृष्टवदिति पूर्ववयभिचारः / आम्रपुष्पफले सत्कार्यकारणे दृष्टे इत्यत्रापि कादाचित्कयोरेव कार्यकारणयोर्दर्शनात्कार्यकारणसदसत्करणाकारणनियममेव दर्शयति, इतश्च कार्यकारणसदसत्त्वानियमः / सर्वसर्वात्मकत्वसर्वकारणत्वात् / स्थावरजङ्गमाभ्यवहृतान्योऽन्यरसरुधिरादिरूपादिपरिणामापतिवे(श्व)रूप्यदर्शनात्सर्वं सर्वात्मकं, तत एव सर्वं सर्वस्य कारणं कार्य चेति कृत्वा सेवादिक्रियाकलापो यथार्थप्राप्तेः कारणं तथा क्लेशप्राप्तेरपि प्रकृत्यात एव कारणं / तदपि च फलमर्थक्लेशप्राप्त्यायनियतमुभयत्र व्यभिचारात् / इतर आहनन्वत एव क्लेशोऽपि कार्यसत्त्वादेव भवतीति नियतं कारणे कार्यमित्यापन वेदितव्यं / चेन्मन्यसे / एवं सतीप्सितेन तावद्भवितव्यम् / किं च तदीप्सितं फलमर्थप्राप्तिर्न क्लेशः / सेवकस्य किं कारणं समिहिततच्छक्त्यभीहितत्वात् / सम्भिहिता सा शक्तिरस्य सोऽयं सेवकः / संनिहितत्वाचेष्टितत्वादिति वृत्तिवृत्तिमतो