________________ नयचक्रम् / [सामान्यविशेषनास्त्युक्तविधिना / तथा कारणे कार्यस्य सत्त्वमेवासत्त्वमेवेत्ययमपि नियमो नास्ति / कथं ? यदि कार्यासत्यतः कारणमेवेति / नास्ति कार्यस्यापि सत्वात्कथं क्रियानिमित्तकत्वात् / कारणकार्यत्वयोः कार्याभावे कारणाभावः, कारणाभावे कार्याभाव इति / तथा यदि कारणं सत्ततः कार्यमेव न भवति कारणस्यापि सत्त्वात् / एवं सामान्यविशेषोभयान्यतरोपसर्जनोभयाभावेष्वपि भावनीयं / तत्र तावत्कारणे कार्य सदेवासदेवासदेव सदसच्चैवेति वा ये ब्रुवते तेषां नियमाभाव उक्तः। अन्यतरोपसर्जनाभावयोरप्युक्त एव भवतीत्यभिप्रायः / कार्ये कारणं सदेवासदेवेत्यनियमः / को हेतुः कारणे सत्येव भावाभावाभ्यामिति यथासंख्यं हेतू सत्येव भावादसत्कारणे कार्यमित्यनियमः / सत्येव भावात्सदेवेत्यनियमः / असतिच कारणे कार्यस्य सदसवानियम इति वर्तते / कुतः। सेवाद्युयोगफलानियमात् / दृष्टो हि लोके कृषीवलवणिग्राजपुरुषशिल्पादीनां कृषिवाणिज्यासेवाशिल्पादिषु उद्युक्तानां फलानियमः। सत्स्वसत्सु च दृष्टस्तद् यथा-वातकर्कोटिकपुष्पं फलकारणं सत्कार्य, पुष्पत्वादाम्रपुष्पवदित्यनुमानप्रसङ्गेऽपि च दृष्टमसत्कार्य / असत्कार्य पुष्पफलमस्मिन्नित्यसत्कार्य / तस्याफलत्वदर्शनाद् दृष्टविरुद्धमनुमानमतोऽसत्कार्य तदिति / अव्यक्तमिति चेत् सान्मतमव्यक्तानि वातकर्कोटिकीवजुलजपाकुसुमादीनां फलानि कार्याणीत्येतच्चायुक्तम् / व्यक्तिकार्यस्याव्यक्तकार्यत्वादसत्त्वतुल्यत्वात् / व्यक्तिः कार्यमस्येतिव्यक्तिकार्य / किं तत् कार्यम् / तस्य कार्यस्याव्यक्तकार्यत्वादसत्त्वेन तुल्यं तद्भावोऽसत्त्वतुल्यत्वं / तस्मादसत्त्वतुल्यत्वान्नाव्यक्तं कार्यमस्तीति / अथवा व्यक्तिं च सत्कार्यं तद्व्यक्तिरेव कार्य तद्व्यक्तं कार्य अव्यक्तकार्य / तस्याव्यक्तकार्यत्त्वादसत्त्वतुल्यं तस्मादसत्तत् वातकर्कोटक्यादिपुष्पफलं नाव्यक्तं कार्यमिति / स्यान्मन्तं, करोतीति कारणं / यथोक्तं 'ष्टिसीव्योर्लट्परयोदीर्घत्वं वष्टि भागुरिः / करोतेः कर्तृभावे च सौनागः संप्रचक्षते // तसात्स्वकार्यस्याकरणात्कारणत्वमेवेति / एतदपि नोपपद्यते / यस्माद्वीजादीनामप्यकारणतैव क्वचिदकारणादिति प्राप्तं / इतिशब्दो हेत्वर्थे / यस्मात्तेषामपि बीजानां त्रिवर्षपरिमोषितानामङ्कुराधुत्पादनाशक्त्यभावः / आदिग्रहणान्मृदादिघटाधुत्पादने। ततः को दोषः। कारणमप्यकारणमेवास्तु, कार्यकारणव्यभिचाराणां तदर्थाप्रवृत्तेः / पुनरनारम्भात् करणाभावे कारणाभाव एव स्यात् , अनिष्टं चैतत् / लोके पुनरुपपद्यते कार्यसदसत्त्वानियमात्तु करणे बीजादौ कारणतायामेव सत्यां करणाकरणे संनिहिते तन्त्वादौ करणे कार्यस्य पटादेश्च कादाचित्कयोः करणाकरणयोर्दर्शनात् / स्यान्मतं, कारणे कार्यस्य सदसत्त्वयोः