________________ -व्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / धानमेव नैव वास्त्युभयमिति / किं च एतेन यदि कारणं यदि कार्य ततः कोदोषः। दृश्यते हि कारणमपि कार्यमपि / यथा परमाणुकारणं घणुकादि मृत्पिण्डशिबिकादीनां कार्यमपि तद्भेदजत्वात् / एवं न्यणुकत्र्यणुकादीनामपि कारणकार्यभावः / सङ्घातभेदाभ्यां सामान्यं, द्रव्यक्षेत्रकालभावानां स्वपरभवनसामान्यानतिवृत्तेः / स्वपरविशिष्टभवनात्मकत्वाविशेषः / एवमुभयमन्यतरोपसर्जनप्रधानत्वम् / सहक्रमवातव्यपारतच्याविवक्षावशात् / न चास्त्युभयमेकान्तरूपस्य परस्पराप्रतिबद्धस्यासिद्धरसिद्ध्यादिशून्यतानुभवनात् / स एव व्यवहारनयाश्रयाल्लौकिको ब्रूते / को हि वादानाम् , इति / एकान्तवादानामन्तं कर्तुं शक्नुयादुच्छेदं शक्नुयात्कर्तुमिति / किं कारणं? / न हि साङ्ख्याभिहिताः सत्कारणे कार्यम् / 'असत्करणादुपादानग्रहणात् सर्वसम्भवाभावात् / शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् // इत्येवमादयो हेतवः। न वा वैशेषिकोक्ताः क्रियागुणव्यपदेशाभावादसदित्यादयः / क्षणिका घटादयः प्रत्ययायत्तजन्मत्वादित्यादयो वा बौद्धोक्ताः परस्परेणोच्छेत्तुं शक्यन्ते / अभियुक्तबुद्ध्युत्कर्षपरम्पराया अदृष्टानिष्टत्वात् / एतस्मिन्नर्थे ज्ञापकमाह-आह चेति / नाहमेव स्वमनीषिकया ब्रवीमि / किं तर्हि ?' अन्येऽप्येवं त्रुवते "णिययवयणिजसच्चा सव्वणया परवियालणे मोहा / ते पुण अदिट्टसमओ विभजइ सच्चेव अलिए वा // " सम्मतितर्के / स्वविषयसत्यत्वादेवाविचाल्या इति तच्चालने मोघाः / तेषामनेकान्तस्थितिखतत्त्वानवबोधात् / सत्यमेवासत्यमेवेत्यदृष्टसमयस्ता विभजते / इत्याचार्यसिद्धसेनः। तथान्येऽपि-- 'यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः / अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते // इति / अनुमानान्तरसाध्यत्वे त्ववस्थितानुमानत्वाल्लोकप्रसिद्धिरेव प्रमाणमित्यर्थः / को ह्येतद्वेदेत्यशक्यप्राप्तिं दर्शयति / किं चानेन ज्ञानेनेति प्रयोजनाभावं च / यस्मात्प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनानां जिज्ञासासंशयसम्यक्त्वप्राप्तिप्रयोजनपूर्वाणां संशयव्युदासः फलमन्ते भविष्यतीति दशावयववादिनां मतम् / तथा च व्यवहारप्रसिद्धिः। तस्मात्त्यज्यन्तामद्यतनाव्याझ्यव्याप्त्यतिप्रसङ्गागमकाक्षरदरिद्रकुश्रुतिकाररचितन्यायलक्षणानीति / तथा च कारणे कार्यसदसत्त्वानियमः / एवं च कृत्वानेन न्यायेन यथा कारणमेव न कार्य, कार्यमेव न कारणं / सामान्यमेव न विशेषो, विशेष एव न सामान्यमुभयमन्यतरोपसर्जनमुभयाभावो वेत्ययं नियमो