________________ नयचक्रम् / [सामान्यविशेषपेक्षते घटान्तरानुवृत्तिः पटादिव्यावृत्तिरेवेति / युक्तानुवृत्तेर्घटापेक्षाव्यावृत्ते एव पटादेर्घटस्य पुनरनुवृत्तिव्यावृत्यपेक्षा व्यर्था, स्वत एव सिद्धत्वात् / स्यान्मतंघटोऽपि घटत्वापेक्षात्मलाभस्तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति। एतच्चायुक्तमितरेतराश्रयदोषापादनात् / घटघटत्वानुवर्तनयोरितरेतराश्रयत्वाद् दोषमापादयत्येषा कल्पना / इतरेतराश्रयाणि च कार्याणि न प्रकल्प्यन्ते / तद्यथा-नौनोंविबद्धा नेतरवारणायेति / उक्तं सामान्यं नापेक्षत इति / तथा विशेषेऽप्यस्य नापेक्षेति / यथा सामान्यापेक्षा नास्ति घटात्मलाभस्य तथा विशेषेऽपीति // प्रोक्तहेतुविधिनातिदिशति / तथा च योजितमस्माभिरर्थतः, ग्रन्थतो योजनापि / तथाहि-स एव न स्याद्रक्तवदिति / न हि तस्य व्यावृत्त्यपेक्षा पटादिषु यदि स्यात् , स तेभ्यो व्यावर्तेत / ततश्च सर्वविशिष्टत्वात्स एव न स्याद् घटोपि। घटपटयोरिव तत्सन्निवेशस्वरूपापेक्षत्वाच्च / तस्यास्तदपेक्षा व्यर्था इतरेतराश्रयदोषापादनादिति सर्वमतिदेश्यं / किं चान्यत् / पूर्वत्वाच्च घटात्मभवनस्य सामान्यविशेषाभ्यां हि पूर्वघटभवनं, तत्कथमिति चेद् ? यथालोकप्रसिद्ध लोके प्रसिद्ध लोकप्रसिद्धं यथैव लोके प्रसिद्धं, तथा घटभवनमाकारादिमात्रमेव च घट इति लोके प्रसिद्धं, तदेव पूर्वमनपेक्षितपूर्वापरप्रभेदत्वात् / के पुनः पूर्वापरप्रभेदाः? घटादारभ्य यावत्प्रकृतिस्ते पूर्वप्रभेदाः सांख्यानाम् / सदिति वा वैशेषिकाणामपरे प्रभेदाः। यावदन्त्यविशेषकृतमन्यदिति सांख्यवैशेषिकाभ्यांकल्पितम् / अत आह प्रकृतिरिति वान्यदिति वा बौद्धेन वा क्षणिकत्वादत्यन्तमन्यदिति वर्तमानत्वाच्च / वर्ततेरस्त्यर्थत्वादस्ति-भवति-विद्यते-पद्यते-वर्ततयः सन्निपातषष्ठाः सत्त्वार्था इति वचनात् / अत एव नित्यं जलाहरणादिव्यवहारसन्निपाति सततमतीतानागतकालयोरपि घटपटयोरवस्थानान्न प्रलयभागिति / नाम्भस्तरङ्गवत्स्वात्मप्रदेशं न प्रदीपज्वालानलवदत्यन्तविनाशं / द्विविधमपि प्रलयं न लभते / द्रव्यस्य पर्यायान्तरेण, पर्यायस्यापि द्रव्याविनाभावादेव एकान्तासदुत्पत्तिविनाशवादयोरहेतुदृष्टान्तत्वात् / एकान्तनित्यवादेन धर्माविर्भावतिरोभावाभावात्तद्धितेन रूपेण सर्वकालं सद्वर्तते / सत्तार्थत्वादिति / तदेव व्याचष्टे-वर्तत इति / भाव इति / वृत्तिभवनयोः प्रागुक्तं पर्यायशब्दत्वं दर्शयति-योऽसाविति / प्रत्यामननिय एवं व्याख्यातो भावः / सोऽसौ तदेव वस्तु नान्यदिति प्रतिपत्तव्यमिति निगमयति-तदन्तरङ्गं प्रधानमनपेक्षं पूर्ववर्तमानं च तद्वस्तु / इतिशब्दः परिसमाप्त्यर्थोऽवधारणार्थो वा / इयानेव पर्याप्तोऽर्थो नातोऽधिको न्यूनो वा येऽन्येऽन्यत्कल्पयन्ति / कारणमेव कार्यमेव सामान्यमेव विशेष एव तदुभयमेवान्यतरोपसर्जनप्र 1 भजते।