________________ -व्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / 27 एतदोषापेतं सर्वथान्तरङ्गं वस्त्विति प्रतिपत्तव्यं / घटादीत्यभिसंभंत्स्यामः / सर्वेण प्रकारेण सर्वथा यां गतागतिं गत्वा सामान्यमेव विशेष एवेत्येवमादिना विचार्य विचारान्तरङ्गं वस्तु घटस्य केनचित् प्रतिविशिष्टेनाकारेणोदकाद्याहरणधारणादिसमर्थेन भवनं समानेन चार्थान्तरैस्तदैवाश्रयणीयं / न बहिरङ्गं सत्त्वद्रव्यत्वादिस्वपरविषयसामान्य विशेषतादिपरिकल्पितम् / यथोक्तम्-'अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिबलवान्' / य एष प्रेक्षापूर्वकारी पुरुषः स प्रातरुत्थाय प्रत्यङ्गवतीनि स्वानि कार्याणि कुरुते / ततः सम्बन्धिनां, ततः सुहृदां, ततः शेषाणामिति तदन्तरङ्गत्वं / कुतः। स्वमूर्तिस्थत्वात्, स्वा मूर्तिीवाद्यात्मिका / तत्रस्थत्वाजलाद्याहरणसमर्थस्य भवनस्य प्रधानत्वाच देवग्राह्यं कुतः प्रधानं / तदर्थवात्सामान्यविशेषयोः, कन्यार्थवस्त्रालङ्कारवत् / घटार्थो हि सामान्यविशेषकल्पनाव्यापारः। व्रीहिकणार्थपलालादिवदप्रधानत्वात्सामान्यविशेषयोस्त्याज्यता व्यवस्थितत्वाच्च तदेव घटभवनं ग्राह्य / व्यवस्थित चात्मन्यवस्थितत्वात् / न यथा तौ संचारिणौ सामान्यविशेषावव्यवस्थितौ परापेक्षत्वादव्यवस्थितत्वाचावस्तु वन्ध्यापुत्रवद् / क्व पुनः संचारिणौ? सद्रव्यादिषु, सद्रव्यपृथिवीमृद्घटत्वाभिसम्बन्धादस्तिद्रव्यं पार्थिवो मार्तिको घट इति घटे संप्रत्यय इति / उक्तं ह्याचार्येण / घटभवनस्योदकाद्याहरणसक्तात्मनः / पुनः क्व संचरणम् ? अनपेक्षत्वाच्च तदेव वस्त्वित्यभिसम्भन्त्स्यते / प्रत्येकं सर्वत्र तद्विघटभवनं न घट इति वा पट इति वा घटपटादिद्रव्यान्तरमपेक्षते / यथानुवृत्तिव्यावृत्तिसामान्यवादिमते तदर्थ घटपटाद्यर्थान्तरापेक्षा व्यावृत्तिविशेषवादिमते च तदर्थं घटपटादिद्रव्यान्तरापेक्षा / लौकिकानुवृत्तिव्यवहारनयवादिमते तु सन्निहितस्वाधीनवृत्तित्वाद् घटात्मभवनस्य न तदपेक्षास्तीति / तद्दर्शयति-न हि तस्यानुवृत्त्यघटान्तरेषु अर्थापत्या न व्यावृत्यापेक्षा पटादिद्रव्यान्तरेषु यदि सादपेक्षा ततोऽनुवर्तते / स घटस्तेष्वपि घटान्तरेष्वपि / न पुनरपेक्षास्ति / तस्य स्वसामर्थ्येनैव सिद्धत्वाद् घटात्मनः / पटाद्यपेक्षेत घटो घटान्तराणि घटान्तरेष्वप्यनुवर्तेत / ततश्च सर्वसामान्यांश एव स स्यात् / घटान्तरमपि घटात्मैव स्यात् तत्तत्त्वानुवृत्तेर्घटात्मवदिति दोषः स्यात् / देशभिन्नेष्वपि घटेषु कालभिन्नघटवत् / तन्निदर्शयति / तद्यथा-पूर्वाह्नापराह्नयोरेक एव घट इति / नापि घटस्तत्त्वानुवृत्तिमपेक्षते / घटात्मन्यसिद्धे तत्त्वानुवृत्त्यसिद्धेस्तत एव च न पटादिव्यावृत्तिमपेक्षते / तदायत्तत्वादित्यत आहतत्सन्निवेशास्वरूपापेक्षत्वाच्च तस्याः / तदपेक्षाद्यर्थी घटावयवसन्निवेशखरूपम 10 ऽनुवर्तेत।